अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे । ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम्
यो अद्य सेन्यो वधो जिघांसन् न उदीरते । इन्द्रस्य तत्र बाहू समन्तं परि दद्मः
परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः । देव सवितः सोम राजन्त्सुमनसं मा कृणु स्वस्तये
देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्। तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम्
यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् । तेन देवप्रसूतेनेदं दूषयता विषम्
असुराणां दुहितासि सा देवानामसि स्वसा । दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम्
आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च । यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि
येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम् । तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः
आहं तनोमि ते पसो अधि ज्यामिव धन्वनि । क्रमस्व ऋष इव रोहितमनवग्लायता सदा
यथायं वाहो अश्विना समैति सं च वर्तते । एवा मामभि ते मनः समैतु सं च वर्तताम्
आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव । रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः
आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च । तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे
संदानं वो बृहस्पतिः संदानं सविता करत्। संदानं मित्रो अर्यमा संदानं भगो अश्विना
सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् । इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम्
अमी ये युधमायन्ति केतून् कृत्वानीकशः । इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम्
आदानेन संदानेनामित्रान् आ द्यामसि । अपाना ये चैषां प्राणा असुनासून्त्समछिदन्
इदमादानमकरं तपसेन्द्रेण संशितम् । अमित्रा येऽत्र नः सन्ति तान् अग्न आ द्या त्वम्
ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ । इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः
यथा मनो मनस्केतैः परापतत्याशुमत्। एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम्
यथा बाणः सुसंशितः परापतत्याशुमत्। एवा त्वं कासे प्र पत पृथिव्या अनु संवतम्
यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्। एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम्
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान्
अपामिदं न्ययनं समुद्रस्य निवेशनम् । मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि
हिमस्य त्वा जरायुणा शाले परि व्ययामसि । शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम्
विश्वजित्त्रायमाणायै मा परि देहि । त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाद् यच्च नः स्वम्
त्रायमाणे विश्वजिते मा परि देहि । विश्वजिद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम्
विश्वजित्कल्याण्यै मा परि देहि । कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाद् यच्च नः स्वम्
कल्याणि सर्वविदे मा परि देहि । सर्वविद्द्विपाच्च सर्वं नो रक्ष चतुष्पाद् यच्च नः स्वम्
त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि । त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया
मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम् । प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे