परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि । वेद त्वाहं निमीवन्तीं नितुदन्तीमराते
उत नग्ना बोभुवती स्वप्नया सचसे जनम् । अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च
या महती महोन्माना विश्वा आशा व्यानशे । तस्यै हिरण्यकेश्यै निर्ऋत्या अकरं नमः
हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही । तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः
वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह । अग्ने तामिह मादय सर्व आ यन्तु मे हवम्
इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु । इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे । तेभिः शकेम वीर्यं जातवेदस्तनूवशिन्
यदसावमुतो देवा अदेवः संश्चिकीर्षति । मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन
अति धावतातिसरा इन्द्रस्य वचसा हत । अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत
यममी पुरोदधिरे ब्रह्माणमपभूतये । इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे । तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि
यान् असावतिसरांश्चकार कृणवच्च यान् । त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम्
यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् । कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः
अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य । अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव । अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव
दिवे स्वाहा
पृथिव्यै स्वाहा
अन्तरिक्षाय स्वाहा
अन्तरिक्षाय स्वाहा
दिवे स्वाहा
पृथिव्यै स्वाहा
सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् । अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय
उदायुरुद्बलमुत्कृतमुत्कृत्यामुन् मनीषामुदिन्द्रियम् । आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा । आत्मसदौ मे स्तं मा मा हिंसिष्टम्
अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्। एतत्स ऋच्छात्
बृहता मन उप ह्वये मातरिश्वना प्राणापानौ । सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् । सरस्वत्या वाचमुप ह्वयामहे मनोयुजा
कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः । पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः