दर्शयिष्यामि तत्राहमात्मानं काममाश्वस। एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ। कद्रूश्च विनता चैव भगिन्यौ ते तपोधन
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा। `स्मगरस्य परं पारं वेलावनविभूषितम्।' जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्। महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्
तिमिंगिलझषाकीर्णं मकरैरावृतं तथा। सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा। उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्
आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं रम्यमुत्तमं सरितां पतिम्
पातालज्वलनावासमसुराणां च बान्धवम्। भयंकरं च सत्त्वानां पयसां निधिमर्णवम्
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्
घोरं जलचरारावरौद्रं भैरवनिःस्वनम्। गम्भीरावर्तकलिलं सर्वभूतभयंकरम्
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्। वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम्। पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्
गां विन्दता भगवता गोविन्देनामितौजसा। वराहरूपिणा चान्तर्विक्षोभितजलाविलम्
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा। अनासादितगाधं च पातालतलमव्ययम्
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः। युगादिकालशयनं विष्णोरमिततेजसः
वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम्। डिम्बाहवार्दितानां च असुराणां परायणम्
बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्। अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः। अभिसार्यमाणमनिशं ददृशाते महार्णवम्। आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः
गम्भीरं तिमिमकरोग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः। विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः। निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी। कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः
इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः।' एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम। जग्मतुः परया प्रीत्या परं पारं महोदधेः
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा। आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्
वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम्। तिमिंगिलसमाकीर्णं मकरैरावृतं तथा
संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि। घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम्
आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं चापि सुरम्यं सरितां पतिम्
पातालज्वलनावासमसुराणां तथालयम्। भयंकराणां सत्त्वानां पयसो निधिमव्ययम्
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुम्यजलसंमितम्
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः। आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः