तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः। जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः
न तां वध्री परिणहेच्छतचर्मा महातनुम्। शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः
स ततः शतसाहस्रं योजनान्तरमागतः। कालेन नातिमहता गरुडः पतगेश्वरः
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः। अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्। मुमोच पुष्पवर्षं च समागलितपादप
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः। मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्
शाखिनो बहवश्चापि शाखयाऽभिहतास्तया। काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः
ते हेमविकचा भूमौ युताः पर्वतधातुभिः। व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः। भक्षयामास गरुडस्तावुभौ गजकच्छपौ
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ। ततः पर्वतकूटाग्रादुत्पपात महाजवः
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः। इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः
सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता। तथा वसूनां रुद्राणामादित्यानां च सर्वशः
साध्यानां मरुतां चैव ये चान्ये देवतागणाः। स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च। ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्। देवानामपि यो देवः सोऽप्यवर्षत शोणितम्
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि। उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्। ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः। उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्
किमर्थं भगवन्घोरा उत्पाताः सहसोत्थिताः। न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो। तपसा वालखिल्यानां महर्षीणां महात्मनाम्
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः। हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक्
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः। सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः। महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः
युष्मान्संबोधयाम्येष `गृहीत्वावरणायुधान्। परिवार्यामृतं सर्वे यूयं मद्वचनादिह
रक्षध्वं विबुधा वीरा' यथा न स हरेद्बलात्। अतुलं हि बलं तस्य बृहस्पतिरुवाच ह
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः। परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान्
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः। कवचानि महार्हाणि वैदूर्यविकृतानि च
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च। विविधानि च शस्त्राणि घोररूपाण्यनेकशः
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः। सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः
चक्राणि परघांश्चैव त्रिशूलानि परश्वधान्। शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्। स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः। भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः