तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः। तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः। इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः। भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्। प्रसादः क्रियतामस्य देवराजस्य याचतः
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः। प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते। अपत्यार्थं समारम्भो भवतश्चायमीप्सितः
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्। तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनता नाम कल्याणी पुत्रकामा यशस्विनी
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः। उपचक्राम भर्तारं तामुवाचाथ कश्यपः
आरम्भः सफलो देवि भविता यस्त्वयेप्सितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ
तपसा वालखिल्यानां मम संकल्पतस्तथा। भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ
उवाच चैनां भगवान्कश्यपः पुनरेव ह। धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति। लोकसंभावितो वीरः कामरूपो विहङ्गमः
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर। व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तथा
जनयामास पुत्रौ द्वावरुणं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत। तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन
ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः।' गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः। परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः। भौमनः सुमहावीर्यः सोमस्य परिरक्षिता
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः। मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः। कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्
तेनावकीर्णा रजसा देवा मोहमुपागमन्। न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः
एवं संलोडयामास गरुडस्त्रिदिवालयम्। पक्षतुण्डप्रहारैस्तु देवान्स विददार ह
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्। विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत
अथ वायुरपोवाह तद्रजस्तरसा बली। ततो वितिमिरे जाते देवाः शकुनिमार्दयन्
ननादोच्चैः स बलवान्महामेघ इवाम्बरे। वध्यमानः सुरगणैः सर्वभूतानि भीषयन्