ततो देवगणाः सर्वे युध्वा पार्थेन वै मुहुः। रणे जेतुमशक्यं तं ज्ञात्वा ते भरतर्षभ
शान्तास्ते विबुधाः सर्वे पार्थबाणाभिपीडिताः। सद्विपं वासवं त्यक्त्वा दुद्रुवुः सर्वतो दिशम्
प्राचीं रुद्राः सगन्धर्वा दक्षिणां मरुतो ययुः। दिशं प्रतीचीं भीतास्ते वसवश्च तथाऽश्विनौ
आदित्याश्चैव विश्वे च दुद्रुवुर्वा उदङ्मुखाः। साध्याश्चोर्ध्वमुखा भीताश्चिन्तयन्तोऽस्य सायकान्
एवं सुरगणाः सर्वे प्राद्रवन्त्सर्वतो दिशम्। मुहुर्मुहुः प्रेक्षमाणाः पार्थमेव सकार्मुकम्
विद्रुतान्देवसङ्घांस्तान्रणे दृष्ट्वा पुरन्दरः। ततः क्रुद्धो महातेजाः पार्थं बाणैरवाकिरत्
पार्थोऽपि शक्रं विव्याथ मानुषो विबुधाधिपम्
ततः सोऽश्ममयं वर्षं व्यसृजद्विबुधाधिपः। तच्छरैरर्जुनो वर्षं प्रतिजाघ्नेऽत्यमर्षणः
अथ संवर्धयामास तद्वर्षं देवराडपि। भूय एव महावीर्यं जिज्ञासुः सव्यसाचिनः
सोऽश्मवर्षं महावेगमिषुभिः पाण्डवोऽपि च। विलयं गमयामास हर्षयन्पाकशासनम्
उपादाय तु पाणिभ्यामङ्गदं नाम पर्वतम्। सद्रुमं व्यसृजच्छक्रो जिघांसुः श्वेतवाहनम्
ततोऽर्जुनो वेगवद्भिर्ज्वलमानैरजिह्यगैः। बाणैर्विध्वंसयामास गिरिराजं सहस्रधा
शक्रं च पातयामास शरैः पार्थो महान्युधि। ततः शक्रो महाराज रणे वीरं धनञ्जयम्
ज्ञात्वा जेतुमशक्यं तं तेजोबलसमन्वितम्। परां प्रीति ययौ तत्र पुत्रशौर्येण वासवः
तदा तत्र न तस्यास्ति दिवि कश्चिन्महायशाः। समर्थो निर्जये राजन्नपि साक्षात्प्रजापतिः
ततः पार्थः शरैर्हत्वा यक्षराक्षसपन्नगान्। दीप्ते चाग्नौ महातेजाः पातयामास सन्ततम्
प्रतिषेधयितुं पार्थं न शेकुस्तत्र केचन। दृष्ट्वा निवारितं शक्रं दिवि देवगणैः सह
यथा सुपर्णः सोमार्थं विबुधानजयत्पुरा। तथा जित्वा सुरान्पार्थस्तर्पयामास पावकम्
ततोऽर्जुनः स्ववीर्येण तर्पयित्वा विभावसुम्। रथं ध्वजं च सहयं दिव्यानस्त्रांश्च पाण्डवः
गाण्डीवं च धनुः श्रेष्ठं तूणी चाक्षयसायकौ। एतान्यपि च बीभत्सुर्लेभे कीर्ति च भारत
भूयोऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम्। विजित्य नववर्षांश्च सपुरांश्च सपर्वतान्
जम्बुद्वीपं वशे कृत्वा सर्वं तद्भरतर्षभ। बलाज्जित्वा नृपान्सर्वान्करे चविनिवेश्य च
रत्नान्यादाय सर्वाणि गत्वा चैव पुनः पुरीम्। ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम्। राजसूयं क्रतुश्रेष्ठं कारयामास भारत
स तान्यन्यानि कर्माणि कृतवानर्जुनः पुरा। अर्जुनेन समो वीर्ये त्रिषु लोकेषु न क्वचित्
देवदानवयक्षाश्च पिशाचोरगराक्षसाः। भीष्मद्रोणादयः सर्वे कुरवश्च महारथाः
लोके सर्वनृपाश्चैव वीराश्चान्ये धनुर्धराः। एते पार्थं रणे युक्ताः प्रतियोद्धुं न शक्नुयुः
अहं हि नित्यं कौरव्य फल्गुनं हृदि संस्थितम्। अपश्यं चिन्तयित्वा तं समुद्विग्नोऽस्मि तद्भयात्
गृहे गृहे च पश्यामि तात पार्थमहं सदा। शरगाण्डीवसंयुक्तं पाशहस्तमिवान्तकम्
अपि पार्थसहस्राणि भीतः पश्यामि भारत। पार्थभूतमिदं सर्वं नगरं प्रतिभाति मे
पार्थमेव हि पश्यामि रहिते तात भारत। दृष्ट्वा स्वप्नगतं पार्थमुद्धमामि विचेतनः