तं च द्विषन्ति सततं स चापि बलवत्तरः। वरप्रदानात्स पितुः कश्यपस्य महात्मनः
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्। कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः
तमेवं वादिनं शेषं पितामह उवाच ह। जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्। कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि। वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्
दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि। दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम। भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा
एष एव वरो देव काङ्क्षितो मे पितामह। धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर
प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च। त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्
इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम् त्वं शेष सम्यक् चलितां यथाव- त्संगृह्य तिष्ठस्व यथाऽचला स्यात्
यथाऽऽह देवो वरदः प्रजापति- र्महीपतिर्भूतपतिर्जगत्पतिः। तथा महीं धारयिताऽस्मि निश्चलां प्रयच्छतां मे विवरं प्रजापते
अधो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति। इमां धरां धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति
तथैव कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः। बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः
शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः। अनन्तभोगैः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा
अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान्। धास्यन्वसुधामेकः शासनाद्ब्रह्मणो विभोः
सुपर्णं च सहायं वै भगवानमरोत्तमः। प्रादादनन्ताय तदा वैनतेयं पितामहः
अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः। अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः
मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः। वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः। ऐरावतप्रभृतिभिः सर्वैर्धर्मपरायणैः
अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः। तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे
सर्वेषामेव शापानां प्रतिघातो हि विद्यते। न तु मात्राऽभिशप्तानां मोक्षः क्वचन विद्यते
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः। शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः
नूनं सर्वविनाशोऽयमस्माकं समुपागतः। `शापः सृष्टो महाघोरो मात्रा खल्वविनीतया। न ह्येतां सोऽव्ययो देवः शपत्नीं प्रत्यषेधयत्
तस्मात्संमन्त्रयामोऽद्य भुजङ्गानामनामयम्। यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम्
सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः। अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्। यथा स यज्ञो न भवेद्यथा वाऽपि पराभवः। जनमेजयस्य सर्पाणां विनाशकरणाय वै
तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः। समयं चकिरे तत्र मन्त्रबुद्धिविशारदाः
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः। जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः। मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्। तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति
स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः। यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्