बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः। प्रजानां हितकामोऽहं न च वारितवांस्तदा
ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः। तेषां विनाशो भविता न तु ये धर्मचारिणः
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्। पन्नगानां निबोधध्वं तस्मिन्काले समागते
यायावरकुले धीमान्भविष्यति महानृषिः। जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः
तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः। आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा। तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः
स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः। कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्
वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना। तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः
तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम्।' सनामायां सनामा स कन्यायां द्विजसत्तमः
एवमस्त्विति तं देवाः पितामहमथाब्रुवन्। उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ
सोऽहमेवं प्रपश्यामि वासुके भगिनी तव। जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये। ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया
एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम। सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन्
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत। जरत्कारुं स्वसारं वै परं हर्षमवाप च
ततो नातिमहान्कालः समतीत इवाभवत्। अथ देवासुराः `सर्वे ममन्थुर्वरुणालयम्
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः। समाप्यैव च तत्कर्म पितामहमुपागमन्
देवा वासुकिना सार्धं पितामहमथाव्रुवन्। भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम्
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि। जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः
हितो ह्ययं सदास्मकं प्रियकारी च नागराट्। प्रसादं कुरु देवेश शमयास्य मनोज्वरम्
मयैव तद्वितीर्णं वै वचनं मनसाऽमराः। एलापत्रेण नागेन यदस्याभिहितं पुरा
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्। विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः। तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु
एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह। पन्नगानां हितं देवास्तत्तथा न तदन्यथा
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा। संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति। सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः। शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति
जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन। इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि। जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्। शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः
क्षपयामास तीव्रेण तपसेत्यत उच्यते। जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा। उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्