भैक्षवद्भिक्षमाणाय नागानां भयशान्तये। ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया
एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम। सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन्
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत। जरत्कारुं स्वसारं वै परं हर्षमवाप च
ततो नातिमहान्कालः समतीत इवाभवत्। अथ देवासुराः `सर्वे ममन्थुर्वरुणालयम्
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः। समाप्यैव च तत्कर्म पितामहमुपागमन्
देवा वासुकिना सार्धं पितामहमथाव्रुवन्। भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम्
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि। जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः
हितो ह्ययं सदास्मकं प्रियकारी च नागराट्। प्रसादं कुरु देवेश शमयास्य मनोज्वरम्
मयैव तद्वितीर्णं वै वचनं मनसाऽमराः। एलापत्रेण नागेन यदस्याभिहितं पुरा
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्। विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः। तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु
एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह। पन्नगानां हितं देवास्तत्तथा न तदन्यथा
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा। संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति। सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः। शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति
जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन। इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि। जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्। शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः
क्षपयामास तीव्रेण तपसेत्यत उच्यते। जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा। उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्
उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम्। यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्। तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः
संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः। स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति
अथ कालस्य महतः स मुनिः संशितव्रतः। तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत
स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा। चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकाङ्क्षत्
ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु। परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि। बभूव मृगयाशीलः पुरास्य प्रपितामहः
तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः।' मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा। अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः
स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा। पृष्ठतो धनुरादाय ससार गहने वने
यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि। अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः
न हि तेन मृगो विद्धो जीवन्गच्छति वै वने। पूर्वरूपं तु तत्तूर्णं तस्यासीत्स्वर्गतिं प्रति