तयोर्भुजविनिष्पेषात्संधर्षेणोरसोस्तथा। समजायत गात्रेषु पावकोऽङ्गारधूमवान्
तत एनं महादेवः पीड्य गात्रैः सुपीडितम्। तेजसा व्क्रमद्रोषाच्चेतस्तस्य विमोहयन्
ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ। फल्गुनो गात्रसंरुद्धो देवदेवेन भारत
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महामनाः। ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः। रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्। मृन्मयं स्ण्डिलं कृत्वामाल्येनापूजयद्भवम्
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम्। अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः। [उवाच चैनं वचसा मेघगम्भीरगीर्हसः। जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम्
भोभो फल्गुन तुष्टोस्मि कर्मणाऽप्रतिमेन ते। शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः
समं तेजश्च वीर्यं च ममाद्य तव चानघ। प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ
ददामि ते विशालाक्ष चक्षुः पूर्वं मुनिर्भवान्। विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः
[प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम्। त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात् ।।]
ततो देवं महादेवं गिरिशं शूनपाणिनम्। ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम्
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च। प्रसादयामास हरं पार्थः परपुरंजयः
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन। [देवदेव महादेव नीलग्रीव जटाधर
कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम्। देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत्
अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः। शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे
दक्षियज्ञविनाशाय हरिरूपाय ते नमः। ललाटाक्षाय शर्वाय मीढुषे शूलपाणये
पिनाकगोप्त्रे सूर्याय मङ्गल्याय च वेधसे। प्रसादये त्वां भगवन्सर्वभूतमहेश्वर
गणेशं जगतः शम्भुं लोककारणकारणम्। प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम्
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर। भगवन्दर्शनाकाङ्क्षी प्राप्तोस्मीमं महागिरिम्
दयितं तव देवेश तापसालयमुत्तमम्। प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम्
कृतो मयाऽयमज्ञानाद्विमर्दो यस्त्वया सह। शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शंकर
तमुवाच महातेजाः प्रहसन्वृषभध्वजः। प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम्
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः। पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः
गङ्गाङ्गितजटः शर्वः पार्थस्यामिततेजसः। प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम्
नरस्त्वं पूर्वदेहे वै नारायणसहायवान्। बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून्
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे। युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत्
शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम्। प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो
तदेतदेव गाण्डीवं तव पार्थ करोचितम्। भायामास्थाय तद्ग्रस्तं मया पुरुषसत्तम