स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः। उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति
न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे। उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः
इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः। तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा। एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत
सान्त्वमानार्थदानैश्च पूजया चारुरूपया। सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः
ततः प्रववृधे गर्भो महातेजा महाप्रभः। यथा मोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि
अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा। कुमारं देवगर्भाभं पितृमातृभयापहम्
ववृधे स तु तत्रैव नागराजनिवेशने। वेदांश्चाधिजगे साङ्गान्भार्गवच्यवनात्मजात्
चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः। नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्। वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्। गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः
भगवानिव देवेशः शूलपाणिर्हिरण्मयः। विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः। पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद
शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा। यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः
जानन्ति स्म भवन्तस्तद्यथावृत्तं पितुर्मम। आसीद्यथा स निधनं गतः काले महायशाः
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः। कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित्
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना। सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम्
शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः। चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः
धर्मात्मा च महात्मा च प्रजापालः पिता तव। आसीदिहायथा वृत्तः स महात्मा शृणुष्व तत्
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत। धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः। द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत्। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु
स्थितः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः। विधवानाथविकलान्कृपणांश्च बभार सः
सुदर्शः सर्वभूतानामासीत्सोम इवापरः। तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः
धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः। गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः। परिक्षीणेषु कुरुषु सोत्तरायामजीजनत्
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली। राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः
जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता। षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः
प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत्। ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्। इदं वर्षसहस्राणि राज्यं कुरुकुलागतम्। बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः