स चेदिविषयं रम्यं वसुः पौरवनन्दनः। इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्। देवाः शक्रपुरोगा वै राजानमुपतस्थिरे
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै। तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्
न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते। त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्
देवानहं पालयिता पालय त्वं हि मानुषान्।' लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः। धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान्
दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः। ऊधः पृथिव्या यो देशस्तमावस नराधिप
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्। स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः
अर्थवानेष देशो हि धनरत्नादिभिर्युतः। वसुपूर्णा च वसुधा वस चेदिषु चेदिप
धर्मशीला जनपदाः सुसंतोषाश्च साधवः। न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा
न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः। युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद। न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्
दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्। आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः। चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्। धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम्
लक्षणं चैतदेवेह भविता ते नराधिप। इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः। इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्
एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत्। प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम्
ततस्तु राजा चेदीनामिन्द्राभरणभूषितः। इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम्
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा। प्रवेशं कारयामास सर्वोत्सववरं तदा
मार्गशीर्षे महाराज पूर्वपक्षे महामखम्। ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः। अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः
अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः। `माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम्
उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये। महारजनवासांसि परिक्षिप्य ध्वजोत्तमम्
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः। पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा
शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा'। भगवान्पूज्यते चात्र यष्टिरूपेण वासवः
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः। `माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह
नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः। अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा
दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात्। सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः
रमन्ते नागराः सर्वे तथा जानपदैः सह। सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम्। सान्तःपुरः सहामात्यः सर्वाभरणभूषितः