प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव। अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि
प्रत्याख्यातश्चतुर्भिश्च शप्त्वा तान्यदुपूर्वकान्। पूरोः सकाशमगमन्मत्त्वा पूरुमलङ्घनम्
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि। जरा वली च मांतात पलितानि च पर्यगुः
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने। पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। कंचित्कालं चरेयं वै विषयान्वयसातव
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह
एवमुक्तः प्रत्युवाच पूरुः पितरमज्जसा। यदात्थ मां महाराज तत्करिष्यामि ते वचः
गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम्। गुरुप्रसादात्त्रैलोक्यमन्वशासच्छतक्रतुः
गुरोरनुमतं प्राप्य सर्वान्कामानमाप्नुयात्। यावदिच्छसि तावच्च धारयिष्यामि ते जराम्
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह। गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान्
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव। यौवनं भवते दत्त्वा चरिष्यामि यथात्थमाम्
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति
एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः। संक्रामयामास जरां तदा पूरौ महात्मनि
पौरवेणाथ वयसा ययातिर्नहुषात्मजः। `रूपयौवनसंपन्नः कुमारः समपद्यत।' प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान्
यथाकामं यथोत्साहं यथाकालं यथासुखम्। धर्माविरुद्धं राजेन्द्रो यथा भवति सोऽन्वभूत्
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वित्पितॄनपि। दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान्
अतिथीनन्नपानैश्च विशश्च परिपालनैः। आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्। ययातिः पालयामास साक्षादिन्द्र इवापरः
स राजा सिंहविक्रान्तो युवा विषयगोचरः। अविरोधेन धर्मस्य चचार सुखमुत्तमम्
स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः। कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः
परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान्। यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान्
विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने। अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे
यदा स पश्यते कालं धर्मात्मा तं महीपतिः। पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह
यथाकामं यथोत्साहं यथाकालमरिन्दम। सेविता विषयाः पुत्र यौवनेन मया तव
न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। एकस्यापि न पर्याप्तं तस्मान्नृष्णां परित्यजेत्
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तांतृष्णां त्यजतः सुखम्
पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः। तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते
तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम्। निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्। राज्यं चेदं गृहाण त्वं `यावदिच्छसि यौवनम्। तावद्दीर्घायुषा भुङ्ख' त्वं हि मे प्रियकृत्सुतः
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा। यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मवान्