कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाऽग्निः। पतस्युदीर्णाम्बुधरान्धकारा- त्खात्खेचराणां प्रवरो यथाऽर्कः
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम्। किं नु स्विदेतत्पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः
दृष्ट्वा च त्वां धिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम्। अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं प्रपाते तव जिज्ञासमानाः
न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान्पृच्छसि ये वयं स्मः। तत्त्वां पृच्छामि स्पृहणीयरूप कस्य त्वं वा किंनिमित्तं त्वमागाः
भयं तु ते व्येतु विषादमोहौ त्यजाशु चैवेन्द्रसमप्रभाव। त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहाऽपि शक्रः
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प। ते सङ्गताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः। प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः
अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात्। प्रभ्रंशितः सुरसिद्धर्षिलोका- त्परिच्युतः प्रपताम्यल्पपुण्यः
अहं हि पूर्वो वयसा भवद्भ्य- स्तेनाभिवादं भवतां न प्रयुञ्जे। यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम्
अवादीस्त्वं वयसा यः प्रवृद्धः स वै राजन्नाभ्यधिकः कथ्यते च। यो विद्यया तपसा संप्रवृद्धः स एव पूज्यो भवति द्विजानाम्
प्रतिकूलं कर्मणां पापमाहु- स्तद्वर्ततेऽप्रवणे पापलोक्यम्। सन्तोऽसतां नानुवर्तन्ति चैत- द्यथा चैषामनुकूलास्तथाऽऽसन्
अभूद्धनं मे विपुलं गतं त- द्विचेष्टमानो नाधिगन्ता तदस्मि। एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति जीवः
महाधनो यो यजते सुयज्ञै- र्यः सर्वविद्यासु विनीतबुद्धिः। वेदानधीत्य तपसा योज्य देहं दिवं स यायात्पुरुषो वीतमोहः
दिष्टं बलीय इति मत्वाऽऽत्मबुद्ध्या
सुखं हि जन्तुर्यदि वाऽपि दुःखं दैवाधीनं विन्दते नात्मशक्त्या। तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कथंचित्
दुःखैर्न तप्येन्न सुखैः प्रहृष्ये- त्समेन वर्तेत सदैव धीरः। दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कथंचित्
भये न मुह्याम्यष्टकाहं कदाचि- त्सन्तापो मे मानसो नास्ति कश्चित्। धाता यथा मां विदधीत लोके ध्रुवं तथाऽहं भवितेति मत्वा
संस्वेदजा अण्डजाश्चोद्भिदश्च सरीसृपाः कृमयोऽथाप्सु मत्स्याः। तथाश्मनस्तृणकाष्ठं च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ति
अनित्यतां सुखदुःस्वस्य बुद्ध्वा कस्मात्संतापमष्टकाहं भजेयम्। किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः
एवं व्रुवाणं नृपतिं ययाति- मथाष्टकः पुनरेवान्वपृच्छत्। मातामहं सर्वगुणोपपन्नं तत्रस्थितं स्वर्गलोके यथावत्
ये ये लोकाः पार्थिवेन्द्रप्रधाना- स्त्वया भुक्ता यं च कालं यथावत्। तान्मे राजन्ब्रूहि सर्वान्यथाव- त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान्
राजाऽहमासमिह सार्वभौम- स्ततो लोकान्महतश्चाजयं वै। तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम्। अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम्। तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
स देवदेवस्य निवेशने च विहृत्य लोकानवसं यथेष्टम्। संपूज्यमानस्त्रिदशैः समस्तै- स्तुल्यप्रभावद्युतिरीश्वराणाम्
तथाऽऽवसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम्। सहाप्सरोभिर्विहरन्पुण्यगन्धा- न्पश्यन्नगान्पुष्पितांश्चारुरूपान्
तत्र स्थितं मां देव सुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम्। दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः। वाचोऽश्रौषं चान्तरिक्षे सुराणां सानुक्रोंशाः शोचतां मां नरेन्द्र
अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः। तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु
तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चेमां त्वरितमुपागतोऽस्मि। हविर्गन्धं देशिकं यज्ञभूमे- र्धूमापाङ्गं प्रतिगृह्य प्रतीतः