श्रीमद्गोविततं नाम वाजिमेधमवाप सः। यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः। त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः
दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः। तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः
भरतस्य वरस्त्रीषु पुत्राः संजज्ञिरे पृथक्। नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान्
ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम्। ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत्
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा। लेभे पुत्रं भरद्पाजाद्भुमन्युं नाम भारत
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः। भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत्
ततो दिविरथो नाम भुमन्योरभवत्सुतः। सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा
पुष्करिण्यामृचीकश्च भुमन्योरभवन्सुताः। तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम्
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः। सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम्
पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम्। ममज्जेव मही तस्य भूरिभारावपीडिता
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम्। सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः। प्रवृद्धजनसस्या च सर्वदैव व्यरोचत
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः। अजमीढं सुमीढं च पुरुमीढं च भारत
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः। षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठइनौ। केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम्। तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः। अन्वयाः कुशिका राजञ्जन्होरमिततेजसः
जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम्। ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम्। संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम्
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा। क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम्
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च। चालयन्वसुधां चेमां बलेन चतुरङ्गिणा
अभ्ययात्तं च पाञ्चल्यो विजित्य तरसा महीम्। अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत्
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः। राजा संवरणस्तस्मात्पलायत महाभयात्
ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम्'। सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा। नदीविपयपर्यन्ते पर्वतस्य समीपतः
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः। तेषां निवसतां तत्र सहस्रं परिवत्सरान्
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः। तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा। निवेद्य सर्वमृषये सत्कारेण सुवर्चसे
तमासने चोपविष्टं राजा वव्रे स्वयं तदा। पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत। अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम्
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम्। भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोतोतमम्