यदिदं दृश्यते किंचिद्बूतं स्थावरजङ्गमम्। पुनःसंक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
एवमेतदनाद्यन्तं भूतसंघातकारकम्। अनादिनिधनं लोके चक्रं संपरिवर्तते
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च। त्रयस्त्रिंशच्च देवनां सृष्टिः संक्षेपलक्षणा
दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः। सविता स ऋचीकोऽर्को भानुराशावहो रविः
पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः। देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः। दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः। ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः। तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च
ययातीक्ष्वाकृवंशश्च राजर्षीणां च सर्वशः। संभूता बहवो वंशा भूतसर्गाः सुविस्तराः
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्। वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च
धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च। लोकयात्राविधान च सर्व तद्दृष्टवानृषिः
नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः।' इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्। `संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम्
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्। इष्टं हि विदुषां लोके समासव्यासधारणम्
मन्वादि भारतं केचिदास्तीकादि तथाऽपरे। तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः। व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्। इतिहासमिमं चक्रे पुण्यं सत्यवतीत्सुतः
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः। मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा। त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान्
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च। जगाम तपसे धीमान्पुनरेवाश्रमं प्रति
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्। अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः। शशास शिष्यमासीनं वैशंपायनमन्तिके
स सदस्यैः सहासीनं श्रावयामास भारतम्। कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः
विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम्। क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत्
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम्। उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्। उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः। अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम्
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः। कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्