सौप्तिकैषीकसंबन्धे पर्वण्युत्तमतेजसी। अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्
पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः। कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढां
भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्जह। तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः
संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः। विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्
धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा। सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः। क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः
यत्र तान्क्षत्रियाः शूरान्सङ्ग्रामेष्वनिवर्तिनः। पुत्रान्भ्रातृन्पितॄंश्चैव ददृशुर्निहतान्रणे
पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता। गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः। राज्ञांतानि शरीराणि दाहयामास शास्त्रतः
तोयकर्मणि चारब्धे राज्ञामुदकदानिके। गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः
सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा। एतदेकादशं पर्व शोकवैक्लव्यकारणम्
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्। सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः
श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता। संख्यया भारताख्यानमुक्तं व्यासेन धीमता
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्। यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिमातुलान्। शान्तिपर्वणि धर्माश्च व्याख्याताःशारतल्पिकाः
राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः। आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्। मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्। अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्
विंशच्चैव तथाध्याया नव चैव तपोधाः। चतुर्दशसहस्राणि तथा सप्तशतानि च
सप्तश्लोकास्तथैवात्र पञ्चविंशतिसंख्यया। अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्। भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयः प्रकीर्तितः। विविधानां च दानानां फलयोगाः प्रकीर्तिताः
तथा पात्रविशेषाश्च दानानां च परो विधिः। आचारविधियोगश्च सत्यस्य च परा गतिः
महाभाग्यं गवां चैव ब्राह्मणानां तथैव च। रहस्यं चैव धर्माणां देशकालोपसंहितम्
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्। भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्। अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु
श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया। ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्। सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः। चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः। चित्राङ्गदायाः पुत्रेण स्वपुत्रेण धनंजयः