त्वयि स्थिते महाभाग परवानस्मि धर्मतः। स्वयं तु रुचिरे स्थाने वासयेर्यदुनन्दन
प्रीतः स तेन वाक्येन परिष्वज्य जनार्दनम्। बलदेवोऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः
आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान्। कन्यागृहे सुभद्राया भुक्त्वा भोजनमिच्छया
लतागृहेषु वसतामिति मे धीयते मतिः। लब्धानुज्ञास्त्वया तात मन्यन्ते सर्वयादवाः
बलवान्दर्शनीयश्च वाग्मी श्रीमान्बहुश्रुतः। कन्यापुरसमीपे तु न युक्तमिति मे मतिः
गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः। त्वयोक्तं न विरुध्येहं करिष्यामि वचस्तव
शुभाशुभस्य विज्ञाता नान्योऽस्मि भुवि कश्चन
अयं देशातिथिः श्रीमान्सर्वधर्मभृतां वरः। धृतिमान्विनयोपेतः सत्यबादी जितेन्द्रियः
यतिलिङ्गधरो ह्येष को विजानाति मानसम्। त्वमिमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम्
निवेदय सुभद्रायै मद्वाक्यपरिचोदितः। भक्ष्यैर्भोज्यैश्च पानैश्च अन्नैरिष्टैश्च पूजय
स तथेति प्रतिज्ञाय सहितो यतिना हरिः। कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत्
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ। तां पुरीं प्रविवेशाथ गृह्य हस्तेन पाण्डवम्। प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम्
पार्थमावेदयामास रुक्मिणीसत्यभामयोः। हृषीकेशवचः श्रुत्वा ते उभे चोचतुर्भृशम्
मनोरथो महानेष हृदि नौ परिवर्तते। कदा द्रक्षाव बीभत्सुं पाण्डवं पुरमागतम्
इत्येवं हर्षमाणे ते वदन्त्यौ सुभृशं प्रियम्। रुग्मिणीसत्यभामे वै दृष्ट्वा प्रीतोऽभवद्यतिः
सर्वेषां हर्षमाणानां पार्थो हर्षमुपागमत्। प्राप्तमज्ञातरूपेण चागतं चार्जुनं हरिः
सत्कृत्य पूज्यमानं तु प्रीत्या चैव ह्यपूजयत्। स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम्
सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत्। अयं देशातिथिर्भद्रे संशितव्रतवानृषिः
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन्। आर्येण च परिज्ञातः पूजनीयो यतिस्त्वया
रागाद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा। एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी। पुरा हि यतयो भद्रे ये भैक्षार्थमनुव्रताः
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः। तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः। कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथाऽऽथ माम्। तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम्
एवमेतेन रूपेण कंचित्कालं धनञ्जयः। उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः
तस्य सर्वगुणोपेतां वासुदेवसहोदरीम्। पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः
गूहयन्निव चाकारमालोक्य वरवर्णिनीम्। दीर्घमुष्णं विनिश्वस्य पार्थः कामवशं गतः
स कृष्णां द्रौपदीं मेने न रूपे भद्रया समाम्। प्राप्तां भूमान्विन्द्रसेनां साक्षाद्वा वरुणात्मजाम्
अतीतकाले संप्राप्ते सर्वास्तापि सुरस्त्रियः। न समा भद्रया लोके इत्येवं मन्यतेऽर्जुनः
अतीतसमये काले सोदर्याणां धनञ्जयः। न सस्मार सुभद्रायां कामाङ्कुशनिवारितः
क्रीडारतिपरां भद्रां सखीगणसमावृताम्। प्रीयते स्मार्जुनः पश्यन्स्वाहामिव विभावसुः