स तथेति प्रतिज्ञाय सहितो यतिना हरिः। कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत्
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ। तां पुरीं प्रविवेशाथ गृह्य हस्तेन पाण्डवम्। प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम्
पार्थमावेदयामास रुक्मिणीसत्यभामयोः। हृषीकेशवचः श्रुत्वा ते उभे चोचतुर्भृशम्
मनोरथो महानेष हृदि नौ परिवर्तते। कदा द्रक्षाव बीभत्सुं पाण्डवं पुरमागतम्
इत्येवं हर्षमाणे ते वदन्त्यौ सुभृशं प्रियम्। रुग्मिणीसत्यभामे वै दृष्ट्वा प्रीतोऽभवद्यतिः
सर्वेषां हर्षमाणानां पार्थो हर्षमुपागमत्। प्राप्तमज्ञातरूपेण चागतं चार्जुनं हरिः
सत्कृत्य पूज्यमानं तु प्रीत्या चैव ह्यपूजयत्। स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम्
सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत्। अयं देशातिथिर्भद्रे संशितव्रतवानृषिः
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन्। आर्येण च परिज्ञातः पूजनीयो यतिस्त्वया
रागाद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा। एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी। पुरा हि यतयो भद्रे ये भैक्षार्थमनुव्रताः
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः। तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः। कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथाऽऽथ माम्। तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम्
एवमेतेन रूपेण कंचित्कालं धनञ्जयः। उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः
तस्य सर्वगुणोपेतां वासुदेवसहोदरीम्। पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः
गूहयन्निव चाकारमालोक्य वरवर्णिनीम्। दीर्घमुष्णं विनिश्वस्य पार्थः कामवशं गतः
स कृष्णां द्रौपदीं मेने न रूपे भद्रया समाम्। प्राप्तां भूमान्विन्द्रसेनां साक्षाद्वा वरुणात्मजाम्
अतीतकाले संप्राप्ते सर्वास्तापि सुरस्त्रियः। न समा भद्रया लोके इत्येवं मन्यतेऽर्जुनः
अतीतसमये काले सोदर्याणां धनञ्जयः। न सस्मार सुभद्रायां कामाङ्कुशनिवारितः
क्रीडारतिपरां भद्रां सखीगणसमावृताम्। प्रीयते स्मार्जुनः पश्यन्स्वाहामिव विभावसुः
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः। समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता। उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा
क्रुद्धमानप्रलापश्च वृष्णीनामर्जुनं प्रति। पौरुषं चोपमां कृत्वा प्रावर्तत धनुष्मताम्
अन्योन्यकलहे चापि विवादे चापि वृष्णयः। अर्जुनोपि न मे तुल्यः कुतस्त्वमिति चाब्रुवन्
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन्। अर्जुनस्य समो वीर्ये भव तात धनुर्धरः
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम्। सत्यसन्धस्य रूपेण चातुर्येण च मोहिता
चारणातिथिसंघानां गदस्य च निशम्य सा। अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे
कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम्। तं तमेव तदा भद्रा बीभत्सुं स्म हि पृच्छति
अभीक्ष्णश्रवणादेवमभीक्ष्णपरिपृच्छनात्। प्रत्यक्ष इव भद्रायाः पाण्डवः प्रत्यपद्यत
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ। पार्थोऽयमिति पश्यन्त्या निःशंसयमजायत