अचव्यात्तमेवं स्याद्वक्त्रं व्यात्तं द्व्यङ्गुलमिष्यते। नासावंशसमुच्छायं मूले त्वेकाङ्गुलं मतम्
उच्छाया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः। अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः
द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः। तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका
त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्द्धाङ्गुला मता। तत्प्रमाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते
भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुरङ्गुलम् । षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम्
मूर्त्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत्। पञ्च नेत्रा त्वधोग्रीवा विस्तारद्वेष्टनं पुनः
त्रिगुणं तु भवेदूद्धर्वं विस्तृताष्टाङ्गुलं पुनः। ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत्
स्कन्दावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ। सप्तनेत्रौ स्मृतौ बाहू प्रवाहू षोडशाङ्गुलौ
त्रिकलौ विस्तृतौ बाहू प्रवाहू चापि तत्समौ। बाहुदण्डोद्ध्र्वतो ज्ञेयः परिणाहः कला नव
नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते। अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते
विस्तारेण करतलं कीर्त्तितं तु षडङ्गुलम्। दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पञ्चाङ्गुला मता
तर्ज्जन्यनामिका चैव तस्मादर्द्धाङ्गुलं विना। कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलम्मितौ
द्विपर्वोङगुष्ठकः कार्यः शेषांगुल्यस्त्रिपर्विकाः। सर्वासां पर्वणोर्द्धेन नखमानं विधीयते
वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः। अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः
ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः। नाभिमध्ये परीणाहो द्विचत्वारिंशदङ्गुलैः
अन्तरं स्तनयोः कार्य्यं तालमात्रं प्रमाणतः। चिवुकौ यवमानौ तु मण्डलं द्विपदं भवेत्
चतुः षष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम्। चतुर्मुखञ्च तदधोवेष्टनं परिकीर्त्तितम्
परिणाहस्तथा कट्या चतुः पञ्चाशदङ्गुलैः। विस्तारश्चोरुमूले तु प्रोच्यते द्वादशाङ्गुलः
तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात्। विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः
जङ्घा मध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः। त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात्
त्रिगुणा परिधिस्चास्य पादौ तालप्रमाणकौ। आयामादुत्थितौ पादौ चतुरङ्गुलमेव च
गुल्फात् पूर्वं तु कर्त्तव्यं प्रमाणाच्चतुरङ्गेलम्। त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः
पञ्चाङ्गुलन्तु नाहोस्य दीर्घा तद्वत् प्रदेशिनी। अष्टमाष्टांशतो न्यूताः शेषाङ्गुल्यः क्रमेण तु
सपादाङ्गुलमुत्तसेधमङगुष्ठस्य प्रकीर्त्तितम्। यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा
अर्द्धाङ्गुलं तथान्यासां क्रमान् न्यूनं तु कारयेत्। त्र्यङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुम्
परिणाहोत्र कोषाग्रं कर्त्तव्यञ्चतुरङ्गुलम्। षडङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ
प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम्। अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम्
दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च। वामे शङ्खं गदीदसितद्वासुदेवस्य लक्षणात्
श्रीपुष्टी चापि कर्त्तव्ये पद्मवीणाकरान्विते। ऊरुमात्रोच्छितायामे मालाविद्याधरौ तथा
प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा। पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत्