ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमामोषधीर्विप्राः तेनायं स उशत्तमः
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे। नाव्यारोप्य महीमय्यां अपाद् वैवस्वतं मनुम्
सुरासुराणां उदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः
धान्वन्तरं द्वादशमं त्रयोदशममेव च। अपाययत्सुरान्अन्यान् मोहिन्या मोहयन्स्त्रिया
चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्जितम् । ददार करजैरूरौ एरकां कटकृत् यथा
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः। पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्रां अकरोन्महीम्
ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवान् अहरद्भरम्
ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्नां जनसुतः कीकटेषु भविष्यति
अथासौ युगसंध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः
अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाविदासिनःकुल्याः सरसः स्युः सहस्रशः
ऋषयो मनवो देवा मनुपुत्रा महौजसः। कलाः सर्वे हरेरेव सप्रजापतयः तथा
एते चांशकलाःपुंसःकृष्णस्तु भगवान्स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे
जन्म गुह्यं भगवतो य एतत्प्रयतो नरः। सायंप्रातर्गृणन्भक्त्या दुःखग्रामाद् विमुच्यते
एतद् रूपं भगवतो ह्यरूपस्य चिदात्मनः । मायागुणैर्विरचितं महदादिभिरात्मनि
यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले । एवं द्रष्टरि दृश्यत्वं आरोपितं अबुद्धिभिः
अतः परं यदव्यक्तं अव्यूढगुणबृंहितम्। अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः
यत्रेमे सदसद् रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम्
यद्येषोपरता देवी माया वैशारदी मतिः । संपन्न एवेति विदुः महिम्नि स्वे महीयते
एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः
(उपेंद्रवज्रा) स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्। भूतेषु चान्तर्हित आत्मतंत्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः
न चास्य कश्चिन्निपुणेन धातुः अवैति जन्तुः कुमनीष ऊतीः। नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः
स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः। योऽमायय ासन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम्
अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे। कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्तउग्रः
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवान् ऋषिः
(अनुष्टुप्) निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् । तदिदं ग्राहयामास सुतं आत्मवतां वरम्
सर्ववेदेतिहासानां सारं सारं समुद्धृतम्। स तु संश्रावयामास महाराजं परीक्षितम्
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः । कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह