जप्तव्यष्टोत्तरशतं जुहुयात्तद्दशांशकम्
षडध्यायीं सत्यमुख्यां तत्पश्चात्तत्प्रसादकम्
आचार्यायादिभागं च द्वितीयं स्वकुलाय सः
विप्रेभ्यो भोजनं दद्यात्स्वयं भुञ्जीत वाग्यतः
कारयेद्यदि भक्त्या च श्रद्धया च समन्वितः
इह जन्मकृतं कर्म परजन्मनि पद्यते
सत्यनारायण व्रतमिह सर्वान्कामान्ददाति हि
इत्युक्त्ंवाऽतर्दधे देवो नारदः स्वर्गतिं ययौ
इतिहासमिमं वक्ष्ये संवादं हरिविप्रयोः
काशीपुरीति विख्याता तत्रासीद्ब्राह्मणो वरः
शतानंद इति ख्यातो विष्णुव्रतपरायणः
विनीतस्यातिशांतस्य स बभूवाक्षिगोचरः क्व यासीति द्विजश्रेष्ठ वृत्तिः कामेन कथ्यताम्
याचितुं धनिनां द्वारि व्रजामि धनमुत्तमम्
तद्वारक उपायोयं विशेषेण कलौ किल
ममोपदेशतो विप्र सत्यनारायणं भज चरणं शरणं याहि मोक्षदं पद्मलोचनम्
एवं संबोधितो विप्रो हरिणा करुणात्मना
इदानीं विप्ररूपेण तव प्रत्यक्षमागतः
दुःखोदधिनिमग्नानां तरणिश्चरणौ हरेः 3.2.25.
आहृत्य पूजासंभारान्हिताय जगतां द्विज
इति ब्रुवंतं विप्रोसौ ददर्श पुरुषोत्तमम्
पीतांबरं नवांभोजलोचनं स्मितपूर्वकम्
निशम्य पुलकांगोसौ प्रेमपूर्णसुलोचनः
प्रणमामि जगन्नाथ जगत्कारणकारकम्
अव्यक्तं व्यक्ततां यातं तापत्रयविमोचनम्
नमः सत्य नारायणायास्य कर्त्रे नमः शुद्धसत्त्वाय विश्वस्य भर्त्रे
धन्योस्म्यद्य कृती धन्यो भवोद्य सफलो मम
दिष्टं किं वर्णयाम्याहो न जाने कस्य वा फलम्
पूजनं च प्रकर्तव्यं लोकनाथ रमापते ।। 3.2.25.
हरिस्तमाह मधुरं सस्मितं विश्वमोहनः
अनायासेन लब्धेन श्रद्धामात्रेण मां यज