देवतातीर्थतपसां भारतादेव निश्चयः । न जन्यते नास्तिकता तस्य मीमांसकैरपि
विष्णौ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च । भक्तिर्भवति कल्याणी भारतादेव धीमताम्
धर्मार्थकाममोक्षाणां भरतात्सिद्धिरेव हि । अजिह्मो भारतः पन्था निर्वाणपदगामिनाम्
मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः । अनित्यतापसन्तप्ता भवन्ति तस्य मुक्तये
विपत्तिं भारताच्छ्रुत्वा वृष्णिपाण्डवसम्पदाम् । दुःखावसानाद्राजेन्द्र! पुण्यं च संश्रयेद्बुधः
एवंविधं भारतं वै प्रोक्तं येन महात्मना । सोऽयं नारायणः साक्षात् व्यासरूपी महामुनिः
स तेषां वचनं श्रुत्वा प्रतापी यो महीपतिः । प्रसादयामास मुनिं व्यासं शास्त्रविशारदम्
शतानीक उवाच अञ्जलिः शिरसा ब्रह्मन्! कृतोऽयं पादयोस्तव । ब्रूहि मे धर्मशास्त्रं तु येना पूततां व्रजे
समुद्धर भवादस्मात्कीर्तयित्वा कथां शुभाम् । यथा मम पिता पूर्वं कीर्तयित्वा तु भारतम्
व्यास उवाच तस्यैतद्वचनं श्रुत्वा व्यासो वचनमब्रवीत् । एष शिष्यः सुमन्तुर्मे कथयिष्यति ते प्रभो!
यदिच्छसि महाबाहो! प्रीतिदं चाद्भुतं शुभम् । श्रव्यं भरतशार्दूल! सर्वपापभयापहम्
यथा वैशम्पायनेन पुरा प्रोक्तं पितुस्तव । महाभारतव्याख्यानं ब्रह्महत्याव्यपोहनम्
अथ तमृषयः सर्वे राजानमिदमब्रुवन् । साधु प्रोक्तं महाबाहो! व्यासेनामितबुद्धिना
सुमन्तुं पृच्छ राजर्षे! सर्वशास्त्रविशारदम् । अस्माकमपि राजेन्द्र! श्रवणे जायते मतिः । अथ व्यासो महातेजाः सुमन्तुमृषिमब्रवीत्
कथयास्मै कथास्तात! याः श्रुत्वा मोदते नृपः । भारतादिकथानां तु यत्रास्य रमते मनः
असावपि महातेजाः श्रुत्वा भावं महामतेः । व्यासस्य द्विजशार्दूल! ऋषीणां चापि सर्वशः
चकार वक्तुं स मनस्तस्मै राज्ञे महामतिः । व्यासस्य शासनाद्विप्र! ऋषीणां चैव सर्वशः
अथ राजा महातेजा आजमीढो द्विजोत्तमम् । प्रणम्य शिरसात्यर्थं प्रवक्तुमुपचक्रमे
शतानीक उवाच पुण्याख्यानं मम ब्रह्मन्! पावनाय प्रकीर्तय । श्रुत्वा यद्ब्राह्मणश्रेष्ठ! मुच्येऽहं सर्वपातकात्
सुमन्तुरुवाच नानाविधानि शास्त्राणि सन्ति पुष्पानि भारत । यानि श्रुत्वा नरो राजन्! मुच्यते सर्वकिल्बिषैः
किमिच्छसि महाबाहो! श्रोतुं यत्त्वां ब्रवीमि वै । भारतादिकथानां तु यासु धर्मादयः स्थिताः
शतानीक उवाच मतानि कानि विप्रेन्द्र ! धर्मशास्त्राणि सुव्रत! । यानि श्रुत्वा नरो विप्र! मुच्यते सर्वकिल्बिषैः
सुमन्तुरुवाच श्रूयन्तां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः । वसिष्ठदक्षसंवर्तशातातपपराशराः
आपस्तम्बोऽथ उशना कात्यायनबृहस्पती । गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि वा
एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत! । वृन्दारकपुरं गत्वा मोदते नात्र संशयः
शतानीक उवाच यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत! । नेच्छामि श्रोतुं विप्रेन्द्र! श्रुतान्येतानि हि द्विज!
त्रयाणामपि वर्णानां प्रोक्तानामपि पण्डितैः । श्रेयसे न तु शूद्राणां तत्र मे वचनं शृणु
चतुर्णामिह वर्णानां श्रेयसे यानि सुव्रत! । भवन्ति द्विजशार्दूल! श्रुतानि भुवनत्रये
विशेषतश्चतुर्थस्य वर्णस्य द्विजसत्तम!
ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः । मन्वादीनि च शास्त्राणि तथाङ्गानि समन्ततः