स्वयोगेनैव कृष्णांशः पीत्वा वायव्यमुत्तमम्
तथाविधं रिपुं दृष्ट्वा शक्रपुत्रो महाबलः
पुनर्योगबलेनैव तदस्त्रं संक्षयं गतम्
स्वयोगेनैव कृष्णांशो जलं सर्वं मुखेऽकरोत्
ययौ शीघ्रं प्रसन्नात्मा बाहुशाली यतेन्द्रियः चर्म खड्गं गृहीत्वाशु खड्गयुद्धमचीकरत्
एतस्मिन्नंतरे प्राप्ता देवाद्याः सर्वभूमिपाः
प्रातःकाले च संप्राप्ते बलखानिर्महाबलः
श्रमेण कर्शितो वीरः शक्रपुत्रः प्रतापवान्
स्वखड्गेनैव कृष्णांश शिरस्तव हराम्यहम् इत्युक्त्वा खड्गमादाय ययौ शीघ्रं रुषान्वितः
बलखानिस्तु तं ज्ञात्वा त्यक्त्वास्त्रं प्रेमकातरः 3.3.19.
हे इन्दुल महाभाग पितृमातृयशस्कर
पूर्वं हत्वा च मां वीर स्वपितृव्यं ततः पुनः सुखी भव महावीर गेहे वै सुखवर्मणः
इति श्रुत्वा वचस्तस्य ज्ञात्वा च स्वकुलं शिशुः कृतवान्रोदनं गाढमपराधनिवृत्तये
उवाच मधुरं वाक्यं शृणु तात मम प्रिय
देवो वा मानुषो वापि पन्नगो वापि दानवः
सोहमाजन्मशुद्धस्य पितुराह्लादकस्य च
पद्मिन्या जनितं मोहं गृहीत्वा ज्ञातवान्न हि
इत्युक्त्वा स पुनर्बालो रुरोद स्नेहकातरः
इति श्रुत्वा वचस्तस्य कृष्णांशो वचनं शिशोः उत्सवं कारयामास तत्र देशे जनेजने
आर्य्यसिंहस्तु तच्छ्रुत्वा नानाद्रव्यसमन्वितः 3.3.19.
शतं हयांस्तथा नागान्मुक्तामणि विभूषितान्
प्रस्थानमकरोत्तेषां स प्रेम्णा वाक्यगद्गदः
उषित्वा मासमेकं तु तस्मिन्मार्गे भयानके
आह्लादस्तु प्रसन्नात्मा सुतं पत्नीसमन्वितम्
दशहाराख्यनगरं संप्राप्तः स्वकुलैस्सह
पृथ्वीराजस्तु तच्छ्रुत्वा विस्मयं परमं ययौ
अप्ससरस्त्वं स्वयं त्यक्त्वा भूमौ नारीत्वमागता
यक्ष्मणा मरणं प्राप्य स्वर्गलोकमुपाययौ
सूत उवाच मुने पांचालदेशे तु राजासीद्बलवर्द्धनः
बिसेनवंशभूपालो वेदतत्त्वविशारदः