स्त्रीधर्मवर्णनम् ब्रह्मोवाच व्रीहीणां कोद्रवाणां च सारधर्ममुदारकः
शूद्राणां क्षयवृद्ध्यादि मन्तव्यं वेतनानि च । । २२ क्षौमकार्पासयोर्विद्यात्सूत्रं पञ्चमभागकम् । देशकालादिभागात्तु प्रत्यक्षादेव निर्णयः । । २३ अवघातेन तूलस्य क्षयो विंशतिभागकः । छन्नां व्याप्तां तु वातेन तद्वदूर्णां प्रचक्षते । । २४ पञ्चाशद्भागिकीं हानिं सूत्रे कुर्वीत लक्षणात्
स्त्रीधर्मवर्णनम् ब्रह्मोवाच प्रथमं प्रतिबुध्येत प्रवर्तेत स्वकर्मसु । पश्चाद्भृत्यजनस्यापि भुञ्जीत च शयीत च । । १ भर्त्रा विरहिता स्त्री च श्वशुराभ्यां विशेषतः । देहलीं नातिवर्तेत प्रतीकारे १ महत्यपि । । २ उत्थाय प्रथमं भर्तुरविज्ञाता न निष्क्रमेत् । क्षपायां सावशेषायां रात्रौ वा वासरादिषु । । ३ तद्वासभवनस्यैव शनैराहूय कार्मिकान् । स्वव्यापारेषु तान्सर्वांस्तत्रतत्र नियोजयेत् । । ४ विबुद्धस्य ततो भर्तुर्निर्वर्त्यावश्यकं विधिम् । गृहकार्याणि सर्वाणि विदधीताप्रमादतः । । ५ मुक्त्वावासकनेपथ्यं कर्मयोग्यं विधाय च । तत्कालोचितकर्तव्यमनुतिष्ठेद्यथाक्रमम् । । ६ महानसं सुसम्मृष्टं चुल्ल्यादिविहितार्चनम् । सर्वोपकरणोपेतमसम्बाधमनाविलम् । । ७ न चातिगुह्यं प्रकटं प्रविभक्तक्रियाश्रयम् । भर्तुराप्तजनाकीर्णं गूढं कक्षादिवर्जितम् । । ८ तत्र पाकादिभाण्डानि बहिरन्तश्च कारयेत् । निणिक्तमलपङ्कानि शुक्तिवल्कादिचूर्णकैः । । ९ निशि कुर्वीत धूमार्चिः शोधितानि दिवातपः । दधिपात्राणि कुर्वीत सदैवान्तरितानि च । । 1.13.१० साधुकारितदुग्धेषु शोधितेषु दिवातपे । ईषद्गृह्योक्तपात्रेषु स्वच्छं येन भवेद्दधि । । ११ स्नेहगोरसपाकादि कृत्वा सुप्रत्ययेक्षितम् । कुर्यात्स्वयमधिष्ठाय भर्तुः पाकविधिक्रियाम् । । १२ किं प्रियं च किमाग्नेयं षड्रसाभ्यन्तरेषु च । किं पथ्यं किमपथ्यं च स्वास्थ्यं२ वास्य कथं भवेत् । । इति यत्नाद्विजानीयादनुष्ठेयं च तत्तथा । । । १३ नित्यानुरागं सत्कारमाहारं सुपरीक्षितम् । महानसादौ कुर्वीत जनमाप्तं क्रमागतम् । । १४ शत्रु दायादसम्बन्धं क्रुद्धभीतावमानितम् । अवाच्योपगृहीतं वा नैवमादीनि योजयेत् । । १५ पुनः पुनः प्रतिष्ठाप्य गुप्तं स्वयमधिष्ठितम् । भर्तुराहारपानादि विदध्यादप्रमादतः । । १६ पाकं निर्वर्त्य मात्राणां कृत्वा स्वेदप्रमार्जनम् । गन्धताम्बूलमाल्यादि किञ्चिदादाय मात्रया । । १७ यथौचित्यादितत्काले भर्तुर्विनयसम्भ्रमैः । तत्कालानुगतात्यर्थमाहारमुपपादयेत् । । १८ स्वभावामयकालानां वैपरीत्येन सर्वदा । सर्वमाहारपानादि प्रयोज्यं तद्विदो जगुः । । १९ हीनतुल्याधिकत्वेन भर्ता पश्यति यं यथा । तं तथैवाधिकं पश्येन्न्यायतः प्रतिपत्तिषु । । 1.13.२० सापत्नकान्यपत्यानि पश्येत्स्वेभ्यो विशेषतः । भगिनीवत्सपत्नीश्च तद्वधून्निजबन्धुवत् । । २१ ग्रासाच्छादशिरोभ्यङ्गस्नानमण्डनकादिकम् । सपत्नीनामकृत्वा तु आत्मनोऽपि न कारयेत् । । २२ व्याधितानां चिकित्सार्थमौषधादिकमादरात् । विदध्यादात्मनस्तासां सर्वाश्रितजनस्य च । । २३ तच्छोके शुचमादद्यात्तत्तुष्टौ मुदमावहेत् । भृत्यबन्धुसपत्नीनां तुल्यदुःखसुखा भवेत् । । २४ लग्धावकाशा स्वप्याच्य निशि सुप्तोत्थिता क्रमात् । अन्यत्र व्ययकर्तारं पतिं रहसि बोधयेत् । । २५ यदवद्यं सपत्नीनां स्वयमस्मै न तद्वदेत् । दौःशील्यादि तु सापायं गूढमस्मै निवेदयेत् । । २६ दुर्भगामनपत्यां वा भर्त्रा चातितिरस्कृताम् । १ अदुष्टां सम्यमाश्वास्य तेनैतामनुकूलयेत् । । २७ तथा वाग्दण्डपारुष्यैर्जनं भर्त्रा विपीडितम् । कुर्याद्विधेयमाश्वास्य न चेद्दोषाय तद्भवेत् । । २८ मत्वात्मनोनपत्यत्वं कालं चापि गतं बहुम् । सन्तानादिकमुद्दिश्य कार्यमात्मनिवेदनम् । । २९ यच्चान्यदपि जानीयात्किञ्चिदस्य चिकीर्षितम् । तत्किलाजानतीवास्य सिद्धमेव प्रदर्शयेत् । । 1.13.३० वैवाहिकं विधिं भर्तुः सर्वं कृत्वा ससम्भ्रमम् । परिणीता च तां पश्येन्नित्यं भगिनिकामिव । । ३१ पूजां सम्बन्धिवर्गस्य मङ्गलं मङ्गलानि च । कुर्यादभिनवोढायाः सुप्रहष्टेन चेतसा । । ३२ मातृवच्छिक्षयेदेनां गृहकृत्येष्वमत्सरा । प्रदेशिकविधिं वास्या विदध्याद्यत्नतः स्वयम् । । ३३ एवं भर्तुरभिप्राय सर्वमित्यादिकारयेत् । सुखार्थं वापि सन्त्यज्य स्त्रीणां भर्ताधिदेवता । । ३४ भर्ताधिदेवता नार्या वर्णा ब्राह्मदेवताः । ब्राह्मणा ह्यग्निदेवास्तु प्रजा राजन्यदेवताः । । ३५ तासां त्रिवर्गसंसिद्धौ प्रदिष्टं कारणद्वयम् । भर्तुर्यदनुकूलत्वं यच्च शीलमविप्लुतम् । । ३६ न तथा यौवनं लोके नापि रूपं न भूषणम् । यथा प्रियानुकूलत्वं सिद्धं शश्वदनौषधम् । । ३७ वयोरूपादिहारिण्यो दृश्यन्ते दुर्भगाः स्त्रियः । वल्लभा मन्दरूपाश्च बह्व्यो गलितयौवनाः । । ३८ तस्मात्प्रियत्वं लोकानां निदानं १योग्यतापरम् । तां विनान्ये गुणा वन्ध्याः सर्वेऽनर्थकृतोऽपि वा । । ३९ तस्मात्सर्वप्रयत्नेन विदध्यादात्मयोग्यताम् । परचित्तज्ञता चास्या मूलं सर्वक्रियास्विह । ।1.13.४ ० बहिरागच्छतो ज्ञात्वा कालं संमृज्य भूमिकाम् । सज्जीकृतासना तिष्ठेत्तस्याज्ञां प्रतितत्परा । । ४१ स्वयं प्रक्षालयेत्पादावुत्थाप्य परिचारिकाम् । तालवृन्तादिकैः कुर्याच्छमस्वेदापनोदनम् । । ४२ आहारस्नानपानादौ सस्पृहं यत्र लक्षयेत् । तदिंगितज्ञा तत्त्वेन सिद्धमस्मै निवेदयेत् । । ४३ सपन्तीपतिबन्धूनां भर्तृचित्तानुकूल्यतः । प्रतिपत्तिं प्रयुञ्जीत स्वबन्धूनां न वै तथा । । ४४ तेषु चात्मनि च ज्ञात्वा भर्तृचित्तं प्रसादयेत् । प्रतिपत्तिं तथाप्येषां नाद्रियेत स्वबन्धुषु । । ४५ अपि भर्तुरभिप्रेतं नारी तत्कुलवासिनी । सत्कारैर्निजबन्धूनां तेन नोपैति वाच्यताम् । ।४६ पूज्य एव हि सम्बन्धः सर्वावस्थासु योषिताम् । कस्ततोऽप्युपकारांशं लिप्सेत कुलजः पुमान् । ।४७ सम्पूज्य स्वसुतां तस्मै विधिवत्प्रतिपाद्यते । ततोऽस्या लिप्सते नाम किमकार्यमतः परम् । । ४८ कन्यां प्रदाय यैर्वृत्तिरात्मनः परिकल्प्यते । दासभण्डनटादीनां मार्गोऽयं न महात्मनाम् । ।४९ तस्मात्स्त्रीबांधवा नित्यं प्रीतिमात्रैकसाधिनीम् । प्रतिपत्तिं समादद्युः सम्बन्धिभ्यः प्रसंगिनीम् । 1.13.५० तस्या भर्तरि रक्षेत प्रीतिं लोके च वाच्यताम् । आत्मनोऽसत्प्रवादं च चेष्टेरन्साधुवृत्तयः । । ५१ एवं विज्ञाय सद्वृत्तं स्त्री वर्तेत तथा सदा । येन तत्परिवर्गस्य भवेद्भर्तुश्च सम्मता । । ५२ प्रियापि साधुवृत्तापि विख्याताभिजनापि च । जनापवादात्सम्प्राप सीतानर्थं सुदारुणम् । । ५३ सर्वस्यामिषभूतत्वाद्गुणदोषानभिज्ञतः । प्रायेणाविनयौचित्यात्स्त्रीणां वृत्तं हि दुष्करम् । । ५४ अगृह्यत्वान्मनोवृत्तेः प्रायः कपटदर्शनात् । निरङ्कुशत्वाल्लोकस्य निर्वाच्या विरलाः स्त्रियः । । ५५ दैवयोगादयोगत्वाद्व्यवहारानभिज्ञतः । वाच्यतापत्तयो दृष्टाः स्त्रीणां शुद्धेऽपि चेतसि । । ५६ तासां दैवप्रतीकारो नोपभोगादृते भवेत् । चारित्रं लोकवृत्तं च एतयोर्विदुरौषधम् । । ५७ हिंदोलकादिक्रीडायां प्रसक्तां तरुणीं निशि । रममाणां विटैः सार्धं विधवां स्वैरचारिणीम् । । ५८ वृद्धादिभार्यां १सज्जायां यानगेयादिसंगिनीम् । कः श्रद्दध्यात्सतीत्येवं साध्वीमपि हि योषितम् । । ५९ यौ चासामिङ्गिताकारौ सन्दिग्धार्थप्रसाधकौ । तयोस्तत्त्वपरिज्ञानं विषयो योगिनां२ यदि । । 1.13.६० तस्माद्यथोक्तमाचारमनुतिष्ठेत्सुसंयता । मिथ्यालग्नोप्यसद्वादः कम्पयत्येव तत्कुलम् । । ६१ त्रिकुल्या वाच्यता रक्ष्या प्रतिष्ठाप्यथ सन्ततिः । भर्तुस्त्रिवर्गसिद्धिश्च साध्यं तत्कुलयोषिताम् । । ६२ पातयन्त्येव दौःशील्यादात्मानं सकुलत्रयम् । उद्धरन्ति तदैवैताः स्त्रियश्चारित्रभूषणाः । । ६३ भर्तृचित्तानुकूलत्वं यासां शीलमविच्युतम्
तासां रत्नसुवर्णादि भार एव न मण्डनम् । । ६४ लोकज्ञाने परा कोटिः पत्यौ भक्तिश्च शाश्वती । शुद्धान्वयानां नारीणां विद्यादेतत्कुलव्रतम् । । ६५ तस्माल्लोकश्च भर्ता च सम्यगाराधितो यया । धर्ममर्थं च कामं च सैवाप्नोति निरत्यया । । ६६ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मकथनं नाम त्रयोदशोऽध्यायः
पतिपरदेशवासे स्त्रीणां शृङ्गारनिषेधः ब्रह्मोवाच प्रेषिते मण्डनं स्त्रीणां पत्यौ मङ्गलमात्रकम् । निष्पादनं च यत्नेन तदारब्धस्य कर्मणः । । १ शय्यामुपार्जनमर्थानां व्ययानां परिहापणम् । । २ व्रतोपवासतात्पर्यं तद्वार्तापरिमार्गणम् । दैवज्ञेक्षणिकप्रश्नो देवानामुपयाचनम् । । ३ नित्यं तस्यागमाशंसा क्षेमार्थं देवपूजनम् । न चात्युज्ज्वलवेषत्वं न सदा तैलधारणम् । ।४ ज्ञातिवेश्म न गन्तव्यं सकामगमनेन १ च । गुरूणामाज्ञया यावद्भर्तुराप्तजनैः सह । । ५ तत्रापि न चिरं तिष्ठेत्स्नानादीन्वापि नाचरेत् । यावदर्थं क्षणं स्थित्वा ततः शीघ्रं समाचरेत् । । ६ आगते प्रकृतिस्थैव कृत्वा तात्कालिकं विधिम् । मुक्तप्रवासने पथ्ये स्नाते भुक्तवति प्रिये । । ७ आत्मानं समलङ्कृत्य सविशेषं मुदान्विता । देवपूजोपहारादीन्दद्यात्प्रागुपपादितान् । । ८ कनिष्ठामातृवज्ज्येष्ठां तदपत्यानि चात्मवत् । पश्येत्तत्परिवर्गं तु नित्यं स्वपरिवर्गवत् । । ९ तत्पुरोनासने तिष्ठेत्पतिं नामंत्रयेत च । तदभिप्रायतः कुर्यात्प्रवृत्तिं सर्वकर्मसु । । 1.14.१० न संसृजेत तद्द्विष्टैः सख्यं कुर्वीत तत्प्रियैः । जनमाप्ततमं तस्य सदाभर्तुश्च मानयेत् । । ११ पैतृकात्समुपानीतं वसुसौगंधिकादिकम् । तस्मै निवेद्यात्मतया तदा तदुपयोजयेत् । । १२ सोपि तत्प्रीतये किंचिदादद्यादल्पमूल्यकम् । संगोप्य मातृवत्स्थेयं तत्तथैवोपयोजयेत् । । १३ तत्प्रीत्यर्थं गृहीतं यद्वैलक्ष्यादिनिवृत्तये । सविशेषं प्रसंगेन तस्यैतत्प्रतिपादयेत्
१४ स्त्रीणां यदेतत्सापत्न्यं परं मात्सर्यकारणम् । तस्मात्तत्परिहर्तव्यं परमोदारचर्यया
१५ तथा कल्पितनेपथ्या भर्तुः पर्यायवासरे । ह्रियमादयमानेव३ पतिं गच्छेद्विसर्जिता । । १६ गत्वा रहसि भर्तारं तत्कालोचितसंभ्रमैः । तद्भावानुगतैस्तैस्तैः सविशेषमुपाचरेत् । । १७ प्रतिबुध्य ततः काले सविशेषं त्रपान्विता । ज्येष्ठाय वसतिं गच्छेद्विशेषेण तथा पुनः । । १८ अप्रातिकूल्यं ज्येष्ठाया हितमन्यत्र योषितः । ततः शनैस्त्ववच्छिद्य पतिं स्ववशमानयेत् । । १९ बहिष्पाकादियोगेन चतुःषष्ट्या रहोगतम् । ज्येष्ठामतिशयानेव भर्तारमुपरञ्जयेत् । । 1.14.२० प्रागल्भ्यं रहसि स्त्रीणां लज्जाधिक्यं ततोऽन्यदा । चित्तज्ञानानुवृत्तिश्च पत्यौ संसेवनं परम् । । २१ एवमाराध्य भर्तारं गृहमाक्रम्य च क्रमात् । गौरवं प्रतिपत्तिं वा ज्येष्ठादिषु न हापयेत् । । २२ गृहव्यापारदानेषु पतिं गुढं तधा वदेत् । अधिकुर्यादनिच्छन्ती ज्येष्ठैवेनां यथा बलात् । । २३ सापि विज्ञाय भर्तारं कनिष्ठाकृष्टमानसम् । विश्रामं प्रार्थयेदेनामधिकुर्यात्सुतामिव । । २४ मत्वा भर्तुरभिप्रेतं रक्षन्ती निजगौरवम् । कृतं भर्त्रनुकूलं स्यात्तदिष्टायानुमोदयेत् । । २५ स्थानिनो यदभिप्रेतं भृत्यैः किं क्रियतेऽन्यथा । क्लिश्यते तत्र मूढात्मा परतन्त्रो वृथा जनः । । २६ तस्मात्सर्वास्ववस्थासु मनोवाक्कायकर्मभिः । हितं स्वाम्यनुकूलत्वं नारीणां तु विशेषतः । । २७ सापि ज्येष्ठापतिं चैव गृहतन्त्रं च सर्वदा । समावर्ज्य १ गुणैर्धीरा प्रागवस्थां न विस्मरेत् । । २८ न सौभाग्यमदं कुर्यान्न चौद्धत्यादिविक्रियाम् । नितरामानतिं गच्छेत्सदानार्यभयादिव । । २९ यथा योग्यतया पत्यौ सौभाग्यमभिवर्धते । स्पर्धयेच्य कुलस्त्रीणां प्रश्रयोपाधिकं तथा । । 1.14.३० एवमाराध्य भर्तारं तत्कार्येष्वप्रमादिनी । पूज्यानां पूजने नित्यं भृत्यानां भरणेषु च । । ३१ गुणानामर्जने नित्यं शीलवत्परिरक्षणे । प्रेत्य चेह च निर्द्वन्द्वं सुखमाप्नोत्यनुत्तमम् । । ३२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मेषु सपत्नीकर्तव्यवर्णनं नाम चतुर्दशोऽध्यायः
स्त्रीधर्मवर्णनम् ब्रह्मोवाच दुर्भगा च पुनर्नित्यमुपवासादितत्परा । बाह्येषु पतिकृत्येषु स्याद्विशेषाभियोगिनी । । १ न प्रशंसां सपत्नीषु निंदां चापि तथात्मनि । असूयां भर्तुरीर्ष्यां वा प्रणयं वापि दर्शयेत् । । २ मद्विधा या हि बह्वेतत्तच्चात्त्यंतिकमश्नुते । यदस्या युष्मतो यायाद्भार्याशब्दाभिधेयताम् । । ३ न च निर्भूषणा तिष्ठेन्न चाप्युद्धतभूषणा । नान्यदा गंधमाल्यादि ग्राह्यं पत्युपचारतः । । ४ तन्न्यूनं सर्वशो ग्राह्यं वल्लभाया विशेषतः । भूषणं गन्धमाल्यं तु तावत्कालमलक्षितम् । । ५ सम्बाधानां प्रदेशानां नित्यं स्वेदादिमार्जनम् । दन्तनासादिपङ्कानां विगन्धस्य च शोधनम् । । ६ निमित्तं भर्तुरेतासां यत्किंचिदभिलक्षयेत् । नानेन वा तयोर्यत्नं विदध्यादङ्गमार्जने । । ७ सर्वासां च सपत्नीनां सर्वत्रानुगता भवेत् । वैतसीं वृत्तिमास्थाय वल्लभाया विशेषतः । । ८ अन्यस्या यदनुष्ठेयं यन्न सीदेत्समर्पितम् । भर्तुश्चाविदितं यत्नात्तत्कुर्यादविरोधि चेत् । । ९ कोशवस्त्रान्नताम्बूलगन्धापानौषधादिकम् । तत्सर्वमनियुक्तानां दोषवत्वाद्विरुध्यते । । 1.15.१० यत्तु मुक्तमनुष्ठेयं गहसम्मार्जनादिकम् । स्त्रीणामनधिकारेऽपि प्रायस्तद्विधिरुच्यते । । ११ अभ्यङ्गोद्वर्तनं स्नानं भोजनं मण्डनानि च । कुर्याद्भर्तुरपत्यानां धात्रीकर्माणि सादरम् । । १२ आत्मवत्तान्यपत्यानि साधयत्यनुयोगतः । स्वेनाप्यमीषां वित्तेन विदध्यान्मण्डनादिकम् । । १३ भोगः स्वयमपत्यैर्वा स्त्रीवित्तस्य पतिर्विधा । पूर्वे वयस्यभिनन्द्य पश्चिमे चोपयोजनम् । । १४ उभयोगस्तु वा मा वा कर्मजः पृथगेव सः । सद्वृत्ते त्वधिकां ख्यातिं कुर्वीत क्रियया पुनः । । १५ न कापि दुर्भगा नाम सुभगा नाम जातितः । व्यवहाराद्भवत्येष निर्देशो रिपुमित्रवत् । । १६ भर्तृचित्तापरिज्ञानादननुष्ठानतोऽपि वा। वृत्तैर्लोकविरुद्धैश्च यान्ति दुर्भगतां स्त्रियः । । १७ प्रानुकूल्यान्मनोवृत्तैः परोऽपि प्रियतां व्रजेत् । प्रातिकूल्यान्निजोप्याशु प्रियः प्रद्वेषतामियात् । । १८ तस्मात्सर्वास्ववस्थासु मनोवाक्कायकर्मभिः । प्रियं समाचरेन्नित्यं तच्चितानुविधायिनी । । १९ यामन्यां कामयेत्तासां तं तया संप्रयोजयेत् । कुपितां च प्रियां काञ्चिद्यत्नादस्मै प्रसादयेत् । । 1.15.२० तत्पादपरिचर्यायां गोत्रसंवाहने १ तथा । पीडने शिरसश्चैव परं कौशलमभ्यसेत् । । २१ पीडनं मृदु मध्यं च गात्रावस्थाविशेषतः । मुखगात्रादिभिर्लिङ्गैः प्रयोज्यं तत्सुखावहम् । । २२ बाहूरुकटिपृष्ठेषु स्कंधे शिरसि पादयोः । गाढमर्दनमिच्छन्ति प्रायोन्यत्रापि मध्यमम् । । २३ निर्मांसेषु प्रदेशेषु नाभिमूलेषु मर्मसु । हृद्गण्डककपोलादाविच्छन्ति मृदुमर्दनम् । । २४ गाढं जाग्रदवस्थायामर्धसुप्तस्य मध्यमम् । किञ्चित्सपरिघातं च मृदुसुप्तस्य नेति वा । । २५ विरुद्धं सर्वगात्रेषु२ लोमवस्तु विशेषतः । उत्कण्डूयत्यु सोद्धर्षं स्नेहाक्तेषु च मर्द नम् । । २६ स्पर्शाद्रोमाञ्चजननं सनखच्छुरितं शनैः । पुलकोल्लेखनोपेतं शिरःकंडूश्च पार्श्वयोः । । २७ तेषु तेषु च गात्रेषु तत्प्रयोज्यं तथातथा । निद्रागमाय तत्काले रागसंधुक्षणाय च । । २८ तिष्ठतश्चोपविष्टस्य १ जाग्रतः स्वपतोऽपि वा । संवाहनं प्रशंसंति यदत्यर्थं सुखावहम् । । २९ नैष्पन्द्यं पुलकोद्भेदो गात्राणामक्षिमीलनम् । तत्प्रदेशार्पणं किञ्चिद्बोधेद्विकृतिदर्शनम् । । 1.15.३० ऊरू मूलादिदेशे च तत्पाणिप्रतिपीडनम् । लक्षयेन्निपुणा२ यत्र तत्रैवाधिकमाचरेत् । । ३१ एवमेव यथोद्दिष्टं स्त्रीवृत्तं यानुतिष्ठति । पतिमाराध्य सम्पूर्ण त्रिवर्गं साधिगच्छति
३२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मवर्णनं नाम पंचदशोऽध्यायः
प्रतिपत्कल्पवर्णनम् सुमन्तुरुवाच इत्युक्त्वा भगवान्ब्रह्मा स्त्रीलक्षणमशेषतः । सद्वृत्तं च तथा स्त्रीणां जगाम स निजालयम् । । १ ऋषयश्च तथा जग्मुः स्वानि धिष्ण्यान्यशेषतः । स्त्रीलक्षणं तथा वृत्तं श्रुत्वा कृत्स्नं महीपते । । २ इत्थं लक्षणसम्पन्नां भार्यां प्राप्य महीपते । कर्तव्यं यद्गृहस्थेन तदिदानीं निबोध मे । । ३ बैवाहिकाग्नौ कुर्वीत गृह्यं कर्म यथाविधि । पञ्चयज्ञविधानं तु पक्तिं कुर्यात्सदा गृही । ।४ पञ्च सूना गृहस्थस्य तेन स्वर्गं न गच्छति । कण्डनी पेषणी चुल्ली उदकुम्भीः प्रमार्जनी । । ५ आसां क्रमेण सर्वासां विशुद्ध्यर्थं मनीषिभिः । पञ्चोद्दिष्टा महायज्ञाः प्रत्यहं गृहमेधिनाम् । । ६ अध्यापनं ब्रह्मयज्ञः पितृयज्ञश्च तर्पणम् । होमो दैवो बलिर्भौमस्तथान्योऽतिथिपूजनम् । ।७ पञ्चैतान्यो महायज्ञान्न हापयति शक्तितः । स गृहेऽपि वसन्नित्यं सूनोदोर्षैर्न लिप्यते । । ८ देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न च जीवति । । ९ शतानीक उवाच यस्य नास्ति गृहे त्वग्निः स मृतो नात्र संशयः । न स पूजयितुं शक्तो देवादीन्ब्राह्मणोत्तमः । । 1.16.१० निरग्निकस्य विप्रस्य कथं देवादयो द्विज. । प्रीताः स्युः शान्तये तस्य परं कौतूहलं मम । । ११ सुमन्तुरुवाच साधु पृष्टोऽस्मि राजेन्द्र श्रूयतां परमं वचः। अनग्नयस्तु ये विप्रास्तेषां श्रेयोऽभिधीयते । । १२ व्रतोपवासनियमैर्नानादानैस्तथा १ नृप । देवादयो भवन्त्येव प्रीतास्तेषां न संशयः । । १३ विशेषादुपवासेन तिथौ किल महीपते । प्रीता देवादयस्तेषां भवन्ति कुरुनन्दन । । १४ शतानीक उवाच भगवंस्त्वं तिथीन्ब्रूहि तिथीनां च विधिं हि मे । प्राशनं गृह्यधर्मांश्च उपवासविधीनपि । । १५ मुच्येम येन पापौघात्त्वत्प्रसाद्द्विजोत्तम । संसाराच्चापि विप्रेन्द्र श्रेयसे जगतस्तथा । । १६ सुमन्तुरुवाच शृणु कौरव कर्माणि तिथिगुह्याश्रितानि तु । श्रुतानि घ्नन्ति पापानि उपोषितफलानि च । । १७ प्रतिपदि क्षीरप्राशनं द्वितीयायां लवणवर्जनम् । तृतीयायां तिलान्नं प्राश्नीयाच्चतुर्थ्यां क्षीराशनश्च पञ्चम्याम् । । फलाशनः सदा षष्ठ्यां शाकाशनः सप्तम्यां बिल्वाहारोष्टम्यां तु । । १८ पिष्टाशनो नवम्यामनग्निपाकाहारो दशम्यामेकादश्यां घृताहारो द्वादश्यां पायसाहारः । त्रयोदश्यां गोमूत्राहारश्चतुर्दश्यां यवान्नाहारः । । १९ कुशोदकप्राशनः पौर्णमास्यां हविष्याहारोऽमावास्यायाम् । एष प्राशनविधिस्तिथीनामेव चानेन विधिना पक्षमेकं यो वर्तयति । । 1.16.२० सोऽश्वमेधफलं दशगुणफलमवाप्नोति । स्वर्गे मन्वन्तराणि यावत्प्रतिवसति । । २१ उपगीयमानोप्सरोगन्धर्वैर्मासत्रयचतुष्टयम् । सोश्वमेधराजसूयानां शतगुणमवाप्नोति । । २२ स्वर्गे उपगीयमानोप्सरोगन्धर्वैश्चतुर्युगानां दशशतीर्यावत्प्रतिवसति । तथाष्टमासपारणे राजसूयाश्वमेधाभ्यां सहस्रगुणफलमवाप्नोति । । २३ स्वर्गे चतुर्दश मन्वतराणि यावत्प्रतिवसति । उपगीयमानोप्सरोगन्धर्वैर्य एवं नियममास्थाय वर्षमेकं वर्तयति । । २४ स सवितुर्लोके कालं मन्वन्तरं प्रतिवसति । । २५ य एवं नियमान्राजन्नाश्वयुजनवम्यां माघमासस्य सप्तम्यां वैशाखतृतीयायां कार्तिकपौर्णमास्यां तिथिव्रतानि गृदृणाति ब्रह्मचारी गृहस्थो वनस्थो नारी नरो वा शूद्रः प्रयतमानसः दीर्घायुष्यं सवितुः सालोक्यं व्रजति।।२६ यैश्चापि पुरा राजन्ननेन विधिना एतासु तिथिष्वन्यजन्मान्तरे उपवासविधिः कृतः दानानि दत्तानि विविधप्रकाराणि ब्राह्मणानां तपस्विजनेषु वा । । २७ त्रिरात्रोपवासिनां तीर्थयात्रातपोगुरुमातापितृशुश्रूशानिरतानां तेषां स्वर्गादिभोगवासनादिहागतानां फलनिष्पत्तिचिह्नानि मनुष्यलोके प्रत्यक्षत एव दृश्यन्ते । । २८ हस्त्यश्वयानयुग्यधनरत्नकनकहिरण्यकटककेयूरग्रैवेयककटिसूत्रकर्णालङ्कारमुकुटवरवस्त्रवरनारी-वरविलेपनसुरूपगुणदीर्घायुषो विगताधिव्याधयो दानोपवासरतानां फलान्येतानि नृत्यगीत-वादित्रमङ्गलपाठकशब्दैरिहाद्यापि पुण्यकृतो बोध्यमाना दृश्यन्त इति । । २९ तथाकृतोपवासा अपि हि दृश्यन्ते । । 1.16.३० तथा अदत्तदाना अकृतपुण्याश्च प्रत्यक्षत एव दृश्यन्ते । । ३१ तद्यथा काणकुष्ठिबधिरजडमूकव्यङ्गा रोगदारिद्र्योपसर्गव्याधिहतायुषश्च दृश्यंतेऽद्यापि मानवाः । । ३२ शतानीक उवाच द्विजेन्द्र तिथयः प्रोक्ताः समासेन त्वया बुध । विस्तरेणैव मे भूयः प्रब्रूहि द्विजसत्तम । । ३३ रहस्यं यत्तिथीनां तु देवानां च विचेष्टितम् । यानीष्टानि च देवानां भोज्यानि नियमास्तथा । । ३४ तानि मे वद धर्मज्ञ येन पूतो भवेन्वहम् । निर्द्वन्द्वो हि यथा विप्र लभे यागफलानि तु । । ३५ सुमन्तुरुवाच रहस्यं यत्तिथीनां च भोजनं फलमेव तु । यावच्च येन नियमो विशेषात्स्त्रीजनस्य च । । ३६ एतत्ते सर्वमाख्यामो रहस्यं तन्निबोध मे । यन्मया नोक्तपूर्वं हि कस्यचित्सुप्रियस्य हि । । ३७ तत्तेऽहं सम्प्रवक्ष्यामि यस्य देवस्य या तिथिः । देवतानां रहस्यानि व्रतानि नियमास्तथा । । ३८ ताञ्छृणुष्व महाबाहो गदतो मम नारद । सृष्टिं पूर्वं वदिष्यामि संक्षेपेण तिथिं प्रति । । ३९ तमोभूतमिदं त्वासीदलभ्यमवितर्कितम् । जगद्ब्रह्मा समागत्यासृजदात्मानमात्मना । । 1.16.४० संभूतात्मैव आत्मासावण्डमध्याद्विनिःसृतः । आत्मनैवात्मनो ह्यण्डं सृष्ट्वा स विभुरादितः । । ४१ ब्रह्मा नारायणाख्योऽसौ सृष्टिं कर्तुं समुद्यतः । ताभ्यां सोण्डकपालाभ्यां दिवं भूमिं च निर्ममे । । ४२ दिशश्चैवोपदिशश्चैव देवादीन्दानवांस्तथा । तिथिं पूर्वामिमां राजंश्चकाराथ विभुः स्वयम् । । ४३ तिथीनां प्रवरा यस्माद्ब्रह्मणा समुदाहृता । प्रतिपादिता परे पूर्वे प्रतिपत्तेन तूच्यते । । ४४ अस्मात्पदात्तु तिथयो यस्मात्त्वन्याः प्रकीर्तिताः । अस्यान्ते कथयिष्यामि उपवासविधिं परम् । । ४५ कार्त्तिक्यां माघसप्तम्यां वैशाखस्य युगादिषु । नियमोपवासं प्रथमं ग्राहयेत विधानवित्
६१ इत्येषा परमा पुण्या शिवा पापहरा तथा । पठितोपासिता राजञ्छ्रद्धया च श्रुता १ तथा । । ६२ माहात्म्यं चापि योप्यस्याः शृणुयान्मानवो नृप । ऋद्धिं वृद्धिं तथा कीर्तिं शिवं चाप्य दिवं व्रजेत् । । ६३ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि प्रतिपत्कल्पवर्णनं नाम षोडशोऽध्यायः
ब्रह्मपूजाविधानं च पूजने यच्च वै फलम्
पूर्वमेकार्णवे घोरे नष्टे स्थावरजंगमे
स्वयंभूरभवद्देवः सुरज्येष्ठश्चतुर्मुखः
कायेन मनसा वाचा जंगमस्थावराणि च
तस्मादेष सदा पूज्यो यतो लोकगुरुः परः
रुद्रोऽस्य मनसो जातो विष्णुर्जातोऽस्य वक्षसः
देवाप्सरसगंधर्वाः सयक्षोरगराक्षसाः
सर्वो ब्रह्ममयो लोकः सर्वं ब्रह्मणि संस्थितम्
यो न पूजयते भक्त्या सुरज्येष्ठं सुरेश्वरम्
यस्तु पूजयते भक्त्या विरिंचिं भुवनेश्वरम् 1.17.
तस्मात्सौम्यमना भूत्वा यावज्जीवं प्रतिज्ञया
वरं देहपरित्यागो वरं नरकसम्भवः
सदा पूजयते यस्तु वीर भक्त्या पितामहम्
न हि वेधोऽर्चनात्किंचित्पुण्यमभ्यधिकं भवेत्
यो ब्रह्माणं द्वेष्टि मोहात्सर्वदेवनमस्कृतम्
ब्रह्मणोर्चां प्रतिष्ठाप्य सर्वयत्नैर्विधानतः
सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम्
कञ्जजं स्थापयेद्यस्तु कृत्वा शालां मनोरमाम्
मातृजान्पितृजांश्चैव यां चैवोद्वहते स्त्रियम्