इदं तु ब्रह्मणा प्रोक्तं धर्मशास्त्रमनुत्तमम् । विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः
शिष्येभ्यश्चैव वक्तव्यं चातुर्वर्ण्येभ्य एव हि । अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन
देवार्चां पुरतः कृत्वा ब्राह्मणैश्च नृपोत्तम । श्रोतव्यमेव शूद्रैश्च तथान्यैश्च द्विजातिभिः
श्रौतं स्मार्तं हि वै धर्मं प्रोक्तमस्मिन्नृपोत्तम । तस्माच्छूद्रैर्विना विप्रान्न श्रोतव्यं कथञ्चन
इदं शास्त्रमधीयानो ब्राह्मणः संशितव्रतः । मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिम्पते
शृण्वन्ति चापि ये राजन् भक्त्या वै ब्राह्मणादयः । मुच्यन्ते पातकैः सर्वैर्गच्छन्ति च दिवं प्रभो
श्रावयेच्चापि यो विप्रः सर्वान्वर्णान्नृपोत्तम । स गुरुः प्रोच्यते तात वर्णानामिह सर्वशः
स पूज्यः सर्वकालेषु सर्वैर्वर्णैर्नराधिप । पृथिवीं च तथैवेमां कृत्स्नामेकोऽपि सोऽर्हति
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । इदं यशस्यं सततमिदं निःश्रेयसं परम्
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चापि शाश्वतः
आचारः प्रथमो धर्मः श्रुत्युक्तश्च नरोत्तम । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । आचारेण च संयुक्तः सम्पूर्णफलभाक्स्मृतः
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलमाचारं जगृहुः परम्
अन्ये च मानवा राजन्नाचारं संश्रिता सदा । एवमस्मिन्पुराणे तु आचारस्य तु कीर्तनम्
वृत्तान्तानि च राजेन्द्र तथा चोक्तानि पण्डितैः । त्रिलोक्यास्तु समुत्पत्तिः संस्कारविधिरुत्तमः । श्रवणं चेतिहासस्य विधानं कथ्यते नृप
तथास्मिन्कथ्यते राजन्माहात्म्यं वाचकस्य तु । व्रतचर्याश्रमाचाराः स्नातकस्य परो विधिः
दारादिगमनं चैव विवाहानां च लक्षणम् । पुंसां च लक्षणं राजन्योषितां चात्र कथ्यते
महायज्ञविधानं च शास्त्रकल्पं च शाश्वतम् । पृथिव्या लक्षणं तात देवार्चायाः सुलक्षणम्
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिरेव च
स्त्रीधर्मयोगस्तापस्यं मोक्षः संन्यास एव च । राज्ञश्च धर्मो ह्यखिलः कार्याणां च विनिर्णयः
माहात्म्यं सवितुश्चात्र तीर्थानां च विशाम्पते । नारायणस्य माहात्म्यं तथा रुद्रस्य कथ्यते
महाभाग्यं च विप्राणां माहात्म्यं पुस्तकस्य च । दुर्गादेव्यास्तथा चोक्तं सत्यस्य च महामते
संक्षिप्तं संविधानं च धर्मं स्त्रीपुंसयोरपि । विभागं धर्मद्यूतं च कथकानां च शोधनम्
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा
संध्याविधिं प्रेतशुद्धिं स्नानतर्पणयोर्विधिम् । वैश्वदेवविधिं चापि तथा भोज्यविधिं नृप
लक्षणं दन्तकाष्ठस्य चरणव्यूहमुत्तमम् । संसारगमनं चैव त्रिविधं कर्मसम्भवम्
नैःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् । दाराणां लक्षणं प्रोक्तं तथा पात्रपरीक्षणम्
प्रसूतिं चापि गर्भस्य तथा कर्मफलं नृप । जातिधर्मान्कुलधर्मान्वेदधर्मांश्च पार्थिव
वैतानव्रतिकानां च तथासौ प्रोक्तवान्विभुः । ब्रह्मा कुरुकुलश्रेष्ठ शंकराय महात्मने
शंकरेण तथा विष्णोः कथितं कुरुनन्दन । विष्णुनापि पुनः प्रोक्तं नारदाय महीपते