अकृत्वा पादयोः शौचं दितिः शयनम् आविशत् निद्रां चाहारयाम् आस तस्यां कुक्षिं प्रविश्य सः
वज्रपाणिस् ततो गर्भं सप्तधा तं न्यकृन्तयत् स पाट्यमानो गर्भो ऽथ वज्रेण प्ररुरोद ह
मा रोदीर् इति तं शक्रः पुनः पुनर् अथाब्रवीत् सो ऽभवत् सप्तधा गर्भस् तम् इन्द्रो रुषितः पुनः
एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः मरुतो नाम ते देवा बभूवुर् द्विजसत्तमाः
यथोक्तं वै मघवता तथैव मरुतो ऽभवन् देवाश् चैकोनपञ्चाशत् सहाया वज्रपाणिनः
तेषाम् एवं प्रवृत्तानां भूतानां द्विजसत्तमाः रोचयन् वै गणश्रेष्ठान् देवानाम् अमितौजसाम्
निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् क्रमशस् तानि राज्यानि पृथुपूर्वाणि भो द्विजाः
स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः पर्जन्यस् तपनो ऽनन्तस् तस्य सर्वम् इदं जगत्
भूतसर्गम् इमं सम्यग् जानतो द्विजसत्तमाः नावृत्तिभयम् अस्तीह परलोकभयं कुतः
अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः ततः क्रमेण राज्यानि व्यादेष्टुम् उपचक्रमे
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस् तथा यज्ञानां तपसां चैव सोमं राज्ये ऽभ्यषेचयत्
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् आदित्यानां तथा विष्णुं वसूनाम् अथ पावकम्
प्रजापतीनां दक्षं तु मरुताम् अथ वासवम् दैत्यानां दानवानां वै प्रह्रादम् अमितौजसम्
वैवस्वतं पितॄणां च यमं राज्ये ऽभ्यषेचयत् यक्षाणां राक्षसानां च पार्थिवानां तथैव च
सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् शैलानां हिमवन्तं च नदीनाम् अथ सागरम्
गन्धर्वाणाम् अधिपतिं चक्रे चित्ररथं प्रभुम् नागानां वासुकिं चक्रे सर्पाणाम् अथ तक्षकम्
वारणानां तु राजानम् ऐरावतम् अथादिशत् उच्चैःश्रवसम् अश्वानां गरुडं चैव पक्षिणाम्
मृगाणाम् अथ शार्दूलं गोवृषं तु गवां पतिम् वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत्
एवं विभज्य राज्यानि क्रमेणैव पितामहः दिशां पालान् अथ ततः स्थापयाम् आस स प्रभुः
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः दिशः पालं सुधन्वानं राजानं सो ऽभ्यषेचयत्
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत्
पश्चिमस्यां दिशि तथा रजसः पुत्रम् अच्युतम् केतुमन्तं महात्मानं राजानं सो ऽभ्यषेचयत्
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत्
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते
राजसूयाभिषिक्तस् तु पृथुर् एतैर् नराधिपैः वेददृष्टेन विधिना राजा राज्ये नराधिपः
ततो मन्वन्तरे ऽतीते चाक्षुषे ऽमिततेजसि वैवस्वताय मनवे पृथिव्यां राज्यम् आदिशत्
तस्य विस्तरम् आख्यास्ये मनोर् वैवस्वतस्य ह भवतां चानुकूल्याय यदि श्रोतुम् इहेच्छथ महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम्
विस्तरेण पृथोर् जन्म लोमहर्षण कीर्तय यथा महात्मना तेन दुग्धा वेयं वसुंधरा
यथा वापि नृभिर् दुग्धा यथा देवैर् महर्षिभिः यथा दैत्यैश् च नागैश् च यथा यक्षैर् यथा द्रुमैः
यथा शैलैः पिशाचैश् च गन्धर्वैश् च द्विजोत्तमैः राक्षसैश् च महासत्त्वैर् यथा दुग्धा वसुंधरा