कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् भोजवृष्ण्यन्धकैर् गुप्तां वसुदेवपुरोगमैः
तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम्
दत्त्वा जगाम शिखरं मेरोस् तपसि संस्थितः रेमे रामो ऽपि धर्मात्मा रेवत्या सहितः सुखी
कथं बहुयुगे काले समतीते महामते न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम्
मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम् स्थिता पृथिव्याम् अद्यापि श्रोतुम् इच्छाम तत्त्वतः
न जरा क्षुत्पिपासा वा न मृत्युर् मुनिसत्तमाः ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह
हृता पुण्यजनैर् विप्रा राक्षसैः सा कुशस्थली तस्य भ्रातृशतं त्व् आसीद् धार्मिकस्य महात्मनः
तद् वध्यमानं रक्षोभिर् दिशः प्राक्रामद् अच्युताः विद्रुतस्य च विप्रेन्द्रास् तस्य भ्रातृशतस्य वै
अन्ववायस् तु सुमहांस् तत्र तत्र द्विजोत्तमाः तेषां ह्य् एते मुनिश्रेष्ठाः शर्याता इति विश्रुताः
क्षत्रिया गुणसंपन्ना दिक्षु सर्वासु विश्रुताः शर्वशः सर्वगहनं प्रविष्टास् ते महौजसः
नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः
पृषध्रो हिंसयित्वा तु गुरोर् गां द्विजसत्तमाः शापाच् छूद्रत्वम् आपन्नो नवैते परिकीर्तिताः
वैवस्वतस्य तनया मुनेर् वै मुनिसत्तमाः क्षुवतस् तु मनोर् विप्रा इक्ष्वाकुर् अभवत् सुतः
तस्य पुत्रशतं त्व् आसीद् इक्ष्वाकोर् भूरिदक्षिणम् तेषां विकुक्षिर् ज्येष्ठस् तु विकुक्षित्वाद् अयोधताम्
प्राप्तः परमधर्मज्ञ सो ऽयोध्याधिपतिः प्रभुः शकुनिप्रमुखास् तस्य पुत्राः पञ्चशतं स्मृताः
उत्तरापथदेशस्य रक्षितारो महाबलाः चत्वारिंशद् दशाष्टौ च दक्षिणस्यां तथा दिशि
वशातिप्रमुखाश् चान्ये रक्षितारो द्विजोत्तमाः इक्ष्वाकुस् तु विकुक्षिं वाऐ अष्टकायाम् अथादिशत्
मांसम् आनय श्राद्धार्थं मृगान् हत्वा महाबल श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि
भक्षयित्वा शशं विप्राः शशादो मृगयां गतः इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः
इक्ष्वाकौ संस्थिते विप्राः शशादस् तु नृपो ऽभवत् शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्
अनेनास् तु ककुत्स्थस्य पृथुश् चानेनसः स्मृतः विष्टराश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् त्व् अजायत
आर्द्रस् तु युवनाश्वस् तु श्रावस्तस् तत्सुतो द्विजाः जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता
श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः कुवलाश्वः सुतस् तस्य राजा परमधार्मिकः
यः स धुन्धुवधाद् राजा धुन्धुमारत्वम् आगतः
धुन्धोर् वधं महाप्राज्ञ श्रोतुम् इच्छाम तत्त्वतः यद्वधात् कुवलाश्वो ऽसौ धुन्धुमारत्वम् आगतः
कुवलाश्वस्य पुत्राणां शतम् उत्तमधन्विनाम् सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः
बभूवुर् धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत्
पुत्रसंक्रामितश्रीस् तु वनं राजा विवेश ह तम् उत्तङ्को ऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत्
भवता रक्षणं कार्यं तच् च कर्तुं त्वम् अर्हसि निरुद्विग्नस् तपश् चर्तुं नहि शक्नोमि पार्थिव
ममाश्रमसमीपे वै समेषु मरुधन्वसु समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः