उपांशुव्रतम् आस्थाय दीक्षां द्वादशवार्षिकीम् पितुर् नियोगाद् अवसत् तस्मिन् वनगते नृपे
अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत
सत्यव्रतस् तु बाल्याच् च भाविनो ऽर्थस्य वै बलात् वसिष्ठे ऽभ्यधिकं मन्युं धारयाम् आस नित्यशः
पित्रा हि तं तदा राष्ट्रात् त्यज्यमानं प्रियं सुतम् निवारयाम् आस मुनिर् बहुना कारणेन न
पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे न च सत्यव्रतस् तस्माद् धतवान् सप्तमे पदे
जानन् धर्मं वसिष्ठस् तु न मां त्रातीति भो द्विजाः सत्यव्रतस् तदा रोषं वसिष्ठे मनसाकरोत्
गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस् तथा न च सत्यव्रतस् तस्य तम् उपांशुम् अबुध्यत
तस्मिन्न् अपरितोषश् च पितुर् आसीन् महात्मनः तेन द्वादश वर्षाणि नावर्षत् पाकशासनः
तेन त्व् इदानीं विहितां दीक्षां तां दुर्वहां भुवि कुलस्य निष्कृतिर् विप्राः कृता सा वै भवेद् इति
न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् अभिषेक्ष्याम्य् अहं पुत्रम् अस्येत्य् एवंमतिर् मुनिः
स तु द्वादश वर्षाणि तां दीक्षाम् अवहद् बली अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः
सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः तां वै क्रोधाच् च मोहाच् च श्रमाच् चैव क्षुधान्वितः
देशधर्मगतो राजा जघान मुनिसत्तमाः तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान्
भोजयाम् आस तच् छ्रुत्वा वसिष्ठो ऽप्य् अस्य चुक्रुधे
पातयेयम् अहं क्रूर तव शङ्कुम् असंशयम् यदि ते द्वाव् इमौ शङ्कू न स्यातां वै कृतौ पुनः
पितुश् चापरितोषेण गुरुदोग्ध्रीवधेन च अप्रोक्षितोपयोगाच् च त्रिविधस् ते व्यतिक्रमः
एवं त्रीण्य् अस्य शङ्कूनि तानि दृष्ट्वा महातपाः त्रिशङ्कुर् इति होवाच त्रिशङ्कुस् तेन स स्मृतः
विश्वामित्रस्य दाराणाम् अनेन भरणं कृतम् तेन तस्मै वरं प्रादान् मुनिः प्रीतस् त्रिशङ्कवे
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः सशरीरो व्रजे स्वर्गम् इत्य् एवं याचितो वरः
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके पित्र्ये राज्ये ऽभिषिच्याथ याजयाम् आस पार्थिवम्
मिषतां देवतानां च वसिष्ठस्य च कौशिकः दिवम् आरोपयाम् आस सशरीरं महातपाः
तस्य सत्यरथा नाम पत्नी कैकेयवंशजा कुमारं जनयाम् आस हरिश्चन्द्रम् अकल्मषम्
स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः
हरिश्चन्द्रस्य पुत्रो ऽभूद् रोहितो नाम पार्थिवः हरितो रोहितस्याथ चञ्चुर् हारित उच्यते
विजयश् च मुनिश्रेष्ठाश् चञ्चुपुत्रो बभूव ह जेता स सर्वपृथिवीं विजयस् तेन स स्मृतः
रुरुकस् तनयस् तस्य राजा धर्मार्थकोविदः रुरुकस्य वृकः पुत्रो वृकाद् बाहुस् तु जज्ञिवान्
हैहयास् तालजङ्घाश् च निरस्यन्ति स्म तं नृपम् तत्पत्नी गर्भम् आदाय और्वस्याश्रमम् आविशत्
नासत्यो धार्मिकश् चैव स ह धर्मयुगे ऽभवत् सगरस् तु सुतो बाहोर् यज्ञे सह गरेण वै
और्वस्याश्रमम् आसाद्य भार्गवेणाभिरक्षितः आग्नेयम् अस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः
जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् शकानां पह्नवानां च धर्मं निरसद् अच्युतः क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित्