पुष्करद्वीपविस्ताराद्विस्तीर्णो ऽसौ समन्ततः
अभितो मानसस्याथ पर्वतस्य तु मण्डले
त्स्यैवाभ्यन्तरेणापि धातकीखण्डमुच्यते
अरोगाः सुखबाहुल्या मानसीं सिद्धिमास्थिताः
अधमोत्तमा न तेष्वस्ति तुल्यास्ते रूपशीलतः
निग्रहो न च दण्डो ऽस्ति न लोभो न परिग्रहः
वर्णाश्रमौ वा वार्ता वा पाशुपाल्यं वणिक्पथः
वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च
सर्वर्त्तुसुसुखस्तत्र जराक्रमविवर्जितः
आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्त्तितः
विस्तारान्मण्डलाच्चैव पुष्करस्य समेन तु
द्वीपस्यानन्तरो यस्तु सामुद्रस्तत्समस्तु सः
अपां चैव समुद्रेकात्सामुद्र इति संज्ञितः
तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं यतः
रतिप्रबधनात्मिद्धं वर्षं तत्तेषु तेन वै
प्रक्षीयमाणे बहुले क्षीयते ऽस्तमिते खगे
तथोपक्षीयमाणे ऽपि स्वात्मन्येवावकृष्यते
महोदधिगतं तोयं स्वत उद्रिच्यते तथा
उदयास्तमये त्विन्दौ पक्षयोः शुक्लकृष्णयोः
दशोत्तराणि पञ्चैव ह्यङ्गुलानि शतानि च
द्विराप्कत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः
अपर्वाणस्तु गिरयः पर्वभिः पर्वताः स्मृताः
शाल्मलिः शाल्मले द्वीपे पूज्यते सुमहाव्रतैः
क्रैञ्चद्वीपे गिरिः कैञ्चो मध्ये जनपदस्य ह
न्यग्रोधः पुष्करद्वीपे तत्रत्यैः स नमस्कृतः
तस्मिन्नि वसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः
स तत्र पूज्यते चैव देवेर्देवोतमोतमः
द्वीपेषु तेषु सर्वेषु प्रजानां क्रमतस्तु वै
आरोग्ययुःप्रमाणाभ्यां प्रमाणं द्विगुणं ततः