सो ऽभिध्याय सतीं भार्यां निर्ममे चात्मसंभवान्
सहस्रं च सहस्राणामसृजत्कृत्तिवाससः
पिङ्गलान्सनिषङ्गांश्च कपर्दी नीललोहितान्
महारूपान्विरूपांश्च विश्वरूपाश्च रूपिणः
सहस्रशतबाहूंश्च दिव्यभौमान्तरिक्षगान्
अन्नादान्पिशितादांश्च आज्यपान्सोमपोस्तथा
सनिषङ्गतनुत्रांश्च धन्विनो ह्यसिचर्मिणः
अधीयानाश्च जपतो युञ्जतो ध्यायतस्तथा
बुद्धान्बुद्धतमांश्चैव ब्रह्मस्वान् ब्रह्मदर्शिनः
अदृश्यान्सर्वभूतानां महायोगान्महौजसः
अयातयामान् सृजतं रुद्रमेतान्सुरोत्तमान्
न स्रष्टव्यात्मन स्तल्या प्रजा नैवाधिका तथा
नारभन्ते हि कर्माणि प्रजा विगतमृत्यवः
प्रजाः स्रक्ष्यामि भद्रं ते स्थितो ऽहं त्वं सृज प्रभो
सहस्रं हि सहस्राणामात्मनो मम निःसृताः
पृथिव्यामन्तरिक्षे च रुद्राण्यस्ताः परिश्रुताः
यज्ञभाजो भविष्यन्ति सर्वे देवगणैः सह
तैः सार्द्धमिज्यमानास्ते स्थास्यन्तीहायुगक्षयात्
प्रत्युवाच तथा भीमं त्दृष्यमाणः प्रजापतिः
ब्रह्मणा समनु ज्ञाते ततः सर्वमभूत्किल
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम्
ज्ञानं तपश्च सत्यं च ह्यैश्वर्यं धर्म एव च
सर्वान्देवानृषींश्चैव समेतानसुरैः सह
अत्येति देवा नैश्वर्याद्वलेन च महासुरान्
प्रजामनु द्यामां सृष्ट्वा सर्गादुपरराम ह
महादेवस्य रुद्रस्य साधकैरृषिभिः सह
विस्तरेण प्रवक्ष्यामि नामानि तनुभिः सह
कल्पेष्वन्येष्वतीतेषु ह्यस्मिन्कल्पे तु ताञ्शृणु
प्रादुरा सीत्ततोङ्के ऽस्य कुमारो नीललोहितः
दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम्