राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातापसावुभौ
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरं गतः
शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ
नारायण उवाच प्रत्येकं वरमिष्टं च संप्रापतुरभीप्सितम्
महालक्ष्म्या वरेणैव तौ पृध्वीशौ बभूवतुः
कुशध्वजस्य पत्नी च देवी मालावती सती
सा च भूतलसम्बन्धाज्ज्ञानयुक्ता बभूव ह ।। कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहे
वेदध्वनिं सा चकार जातमात्रेण कन्यका
जातमात्रेण सुस्नाता जगाम तपसे वनम्
एकमन्वन्तरं चैव पुष्करे च तपस्विनी
तथाऽपि पुष्टा न कृशा नवयौवनसंयुता
जन्मान्तरे ते भर्त्ता च भविष्यति हरिः स्वयम्
इति श्रुत्वा तु सा रुष्टा चकार च पुनस्तपः 2.14.
तत्रैवं सुचिरं तप्त्वा विश्वस्य समुवास सा
दृष्ट्वा साऽतिथिभक्त्या च पाद्यं तस्मै ददौ किल
तच्च भुक्त्वा स पापिष्ठश्चावात्सीत्तत्समीपतः
तां च दृष्ट्वा वरारोहां पीनोन्नतपयोधराम्
मूर्च्छामवाप कृपणः कामबाणप्रपीडितः
सा सती कोपदृष्ट्या च स्तम्भितं तं चकार ह
तुष्टाव मनसा देवीं पद्मांशां पद्मलोचनाम्
शशाप च मदर्थे त्वं विनश्यसि सबान्धवः
इत्युक्त्वा सा च योगेन देहत्यागं चकार ह
अहो किमद्भुतं दृष्टं किं कृतं वा मयाऽधुना ।। 2.14.
सा च कालान्तरे साध्वी बभूव जनकात्मजा
महातपस्विनी सा च तपसा पूर्वजन्मनः
संप्राप्य तपसाऽऽराध्य स्वामिनं च जगत्पतिम्
जातिस्मरा स्म स्मरति तपसश्च क्रमं पुरा
नानाप्रकारविभवं चकार सुचिरं सती
गुणिनं रसिकं शान्तं कान्तवेषमनुत्तमम्