ॐ नमो मनसायै वैष्णवी नागभगिनी शैवी नागेश्वरी तथा
जरत्कारुप्रियाऽऽस्तीकमाता विषहरीति च
द्वादशैतानि नामानि पूजाकाले च यः पठेत्
नागभीदे च शयने नागग्रस्ते च मन्दिरे
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् 2.45.
नागौघं भूषणं कृत्वा स भवेन्नागवाहनः
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मनसोपाख्याने मनसास्तोत्रादिक थनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः
नारायण उवाच ध्यानं च सामवेदोक्तं देवीपूजाविधानकम्
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम्
महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम्
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत्
मूलमन्त्रश्च वेदोक्तो भक्तानां वाञ्छितप्रदः
ॐ ह्रीं श्रीं क्रीं ऐं मनसादेव्यै स्वाहेति कीर्तितः
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले
ब्रह्मन्नाषाढसंक्रान्त्यां गुडाशाखासु यत्नतः
पञ्चम्यां मानसाख्यायां देव्यै दद्याच्च यो बलिम्
पूजाविधानं कथितं तदाख्यानं निशामय 2.46.
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि
मन्त्राधिष्ठातृदेवीं तां मानसां ससृजे ततः
कुमारी सा च संभूय चागमच्छङ्करालयम्
दिव्यं वर्षसहस्रं च तं सिषेवे मुनेः सुता
महाज्ञानं ददौ तस्यै पाठयामास साम च
लक्ष्मीमायाकामबीज ङेन्तं कृष्णपदं तथा त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम्
स्तवनं सर्वपूज्यं च ध्यानं भुवनपावनम्
प्राप्य मृत्युञ्जयाज्ज्ञानं परं मृत्युञ्जयं सती
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः 2.46.
दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव
प्रथमे पूजिता सा च कृष्णेन परमात्मना