मुनिरुवाच तथा नित्यं डिम्बरूपश्श्रीकृष्णेच्छासमुद्भवः
जलेन परिपूर्णश्च कृष्णस्य मुखबिन्दुना
प्रकृत्या सह युक्तस्य कलया निजया नृप
प्रकृतिर्गर्भसंर्युक्तडिम्बोद्भूतस्य भूमिप
वनमालाधरः श्रीमाञ्छोभितः पीतवाससा 2.54.
आत्माऽऽकाशसमो नित्यो विस्तृतश्चन्द्रबिम्बवत्
आकाशवत्सुविस्तारो रत्नौघैश्च विनिर्मितः
लक्ष्मीसरस्वतीगङ्गातुलसीपतिरीश्वरः
सर्वेशः सर्वसिद्धेशो भक्तानुग्रहविग्रहः
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम्
गोलोको वर्त्तुलाकारो वरिष्ठस्सर्वलोकतः
रत्नेन्द्रसारखचितैः स्तम्भसोपानचित्रितैः
नानाचित्रविचित्रैश्च शिबिरैश्च विराजितः विरजासरिदाकीर्णैश्शतशृंगैस्सुवेष्टितः
सरिदर्धप्रमाणेन दैर्घ्येण च ततेन च
तदर्द्धमानविलसद्रासमण्डलमण्डितः 2.54.
यथा पंकजमध्ये च कर्णिका सुमनोहरा
रासेश्वर्य्या राधिकया संयुक्तः सन्ततं नृप
वह्निशुद्धांशुकाधानो रत्नभूषणभूषितः
रत्नसिंहासनस्थश्च रत्नच्छत्रेण शोभितः
भूषिताभिश्च गोपीभिर्मालाचन्दनचर्चितः
कथितो लोकविस्तारो यथाशक्ति यथागमम्
पात्रं षट्पलसंभूतं गभीरं चतुरङ्गुलम्
स्वर्णमाषकृतच्छिद्रं दण्डैश्च चतुरंगुलैः
दण्डद्वयं मुहूर्तं च यामस्तस्य चतुष्टयम्
मासो द्वाभ्यां च पक्षाभ्यां वर्षं द्वादशमासकैः 2.54.
कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्त्तिता
अयनं ह्युत्तरमहो रात्रिर्वै दक्षिणायनम्
प्रकृतेः प्राकृतानां च ब्रह्मादीनां निशामय
दिव्यैर्द्वादशसाहस्रैः सावधानं निशामय
तेषां च सन्ध्यासन्ध्यांशौ द्वे सहस्रे प्रकीर्तिते