परिपूर्णतमं ब्रह्म जपन्तं कृष्णमीश्वरम्
दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगुः पुरः
भृगुरुवाच पितामहस्त्वमस्माकं सर्वज्ञं कथयामि किम्
मृगयामागतं भूपं पिता मे चोपवासिनम्
स राजा कपिलालोभात्कार्तवीर्य्यार्जुनः स्वयम्
निरुध्य बाष्पं स पुनरुवाच करुणानिधिः
अधुनाऽहमनाथश्च त्वं मे माता पिता गुरुः
आगतोऽहं तव सभां प्रमातुर्मातुराज्ञया
स राजा स च धर्मिष्ठः स दयालुर्यशस्करः
धनिदीनौ समं दृष्ट्वा यः प्रजां न च पालयेत्
श्रुत्वा विप्रबटोर्वाक्यं करुणासागरो विधिः
श्रुत्वा भृगोः प्रतिज्ञां च विस्मितश्चतुराननः
कर्मणा तद्भवेत्सर्वमिति कृत्वा तु मानसे
ब्रह्मोवाच सृष्टिरेषा भगवतः सम्भवेदीश्वरेच्छया
सृष्टिः सृष्टा मया पुत्र क्लेशेनैवेश्वराज्ञया
त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम्
ब्रह्मक्षत्त्रियविट्छूद्रैर्नित्या सृष्टिश्चतुर्विधैः
अन्यथा त्वत्प्रतिज्ञा च भविता प्राक्तनेन ते
शिवलोकं गच्छ वत्स शङ्करं शरणं व्रज
विनाऽज्ञया महेशस्य को वा तान्हन्तुमीश्वरः
उपायं कुरु यत्नेन जयबीजं शुभावहम्
श्रीकृष्णमन्त्रकवचग्रहणं कुरु शङ्करात्
गुरुस्ते जगतां नाथः शिवो जन्मनि जन्मनि
कर्मणा लभ्यते मन्त्रः कर्मणा लभ्यते गुरुः
त्रैलोक्य विजयं नाम गृहीत्वा कवचं वरम्
दिव्यं पाशुपतं तुभ्यं दाता दास्यति शंकरः
नारायण उवाच स्फीतस्तस्माद्वरं प्राप्य शिवलोकं जगाम सः
लक्षयोजनमूर्ध्वं च ब्रह्मलोकाद्विलक्षणम्
वैकुण्ठं दक्षिणे यस्य गौरीलोकश्च वामतः
तेषामूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः