सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः । दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम्
कृत्वा विवाहसम्भारं यदा वै भ्रातरं निजम् । विचित्रवीर्यं धर्मिष्ठं विवाहयति ता यदा
तदा ज्येष्ठाप्युवाचेदं कन्यका जाह्नवीसुतम् । लज्जमानासितापाङ्गी तिसॄणां चारुलोचना
गङ्गापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक । मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः
वृताहं तेन राज्ञा वै चित्ते प्रेमसमाकुले । यथायोग्यं कुरुष्वाद्य कुलस्यास्य परन्तप
तेनाहं वृतपूर्वाऽस्मि त्वं च धर्मभृतां वरः । बलवानसि गाङ्गेय यथेच्छसि तथा कुरु
सूत उवाच एवमुक्तस्तया तत्र कन्यया कुरुनन्दनः । अपृच्छत् ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा
सर्वेषां मतमाज्ञाय गाङ्गेयो धर्मवित्तमः । गच्छेति कन्यकां प्राह यथारुचि वरानने
विसर्जिताथ सा तेन गता शाल्वनिकेतनम् । उवाच तं वरारोहा राजानं मनसेप्सितम्
विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः । आगतास्मि महाराज गृहाणाद्य करं मम
धर्मपत्नी तवात्यन्तं भवामि नृपसत्तम । चिन्तितोऽसि मया पूर्वं त्वयाहं नात्र संशयः
शाल्व उवाच गृहीता त्वं वरारोहे भीष्मेण पश्यतो मम । रथे संस्थापिता तेन न ग्रहीष्ये करं तव
परोच्छिष्टां च कः कन्यां गृह्णाति मतिमान्नरः । अतोऽहं न ग्रहीष्यामि त्यक्तां भीष्मेण मातृवत्
रुदती विलपन्ती सा त्यक्ता तेन महात्मना । पुनर्भीष्मं समागत्य रुदती चेदमब्रवीत्
शाल्वो मुक्तां त्वया वीर न गृह्णाति गृहाण माम् । धर्मज्ञोऽसि महाभाग मरिष्याम्यन्यथा ह्यहम्
भीष्म उवाच अन्यचित्तां कथं त्वां वै गृह्णामि वरवर्णिनि । पितरं स्वं वरारोहे व्रज शीघ्नं निराकुला
तथोक्ता सा तु भीष्मेण जगाम वनमेव हि । तपश्चकार विजने तीर्थे परमपावने
द्वे भार्ये चातिरूपाढ्ये तस्य राज्ञो बभूवतुः । अम्बालिका चाम्बिका च काशिराजसुते शुभे
राजा विचित्रवीर्योऽसौ ताभ्यां सह महाबलः । रेमे नानाविहारैश्च गृहे चोपवने तथा
वर्षाणि नव राजेन्द्रः कुर्वन् क्रीडा मनोरमाम् । प्रापासौ मरणं भूयो गृहीतो राजयक्ष्मणा
मृते पुत्रेऽतिदुःखार्ता जाता सत्यवती तदा । कारयामास पुत्रस्य प्रेतकार्याणि मन्त्रिभिः
भीष्ममाह तदैकान्ते वचनं चातिदुःखिता । राज्यं कुरु महाभाग पितुस्ते शन्तनोः सुत
भ्रातुर्भार्यां गृहाण त्वं वंशञ्च परिरक्षय । यथा न नाशमायाति ययातेर्वंश इत्युत
भीष्म उवाच प्रतिज्ञा मे श्रुता मातः पित्रर्थे या मया कृता । नाहं राज्यं करिष्यामि न चाहं दारसंग्रहम्
सूत उवाच तदा चिन्तातुरा जाता कथं वंशो भवेदिति । नालसाद्धि सुखं मह्यं समुत्पन्ने ह्यराजके
गाङ्गेयस्तामुवाचेदं मा चिन्तां कुरु भामिनि । पुत्रं विचित्रवीर्यस्य क्षेत्रजं चोपपादय
कुलीनं द्विजमाहूय वध्वा सह नियोजय । नात्र दोषोऽस्ति वेदेऽपि कुलरक्षाविधौ किल
पौत्रं चैवं समुत्पाद्य राज्यं देहि शुचिस्मिते । अहं च पालयिष्यामि तस्य शासनमेव हि
तच्छ्रुत्वा वचनं तस्य कानीनं स्वसुतं मुनिम् । जगाम मनसा व्यासं द्वैपायनमकल्मषम्
स्मृतमात्रस्ततो व्यास आजगाम स तापसः । कृत्वा प्रणामं मात्रेऽथ संस्थितो दीप्तिमान्मुनिः