बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः । म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते
कल्किरूपं समादध्यौ देवदेवाय ते नमः । दशावतारास्ते देव भक्तानां रक्षणाय वै
दुष्टदैत्यविघाताय तस्मात्त्वं सर्वदुःखहृत् । जय भक्तार्तिनाशाय धृतं नारीजलात्मसु
रूपं येन त्वया देव कोऽन्यस्त्वत्तो दयानिधिः । इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम्
प्रणेमुर्भक्तिसहिताः साष्टाङ्गं विबुधर्षभाः । तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः
उवाच विबुधान्सर्वान् हर्षयच्छ्रीगदाधरः । श्रीभगवानुवाच - प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ
भवतां नाशयिष्यामि दुःखं परमदुःसहम् । वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम्
ददामि परमप्रीतः स्तवस्यास्य प्रसादतः । य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः
मयि भक्तिं परां कृत्वा न तं शोकः स्पृशेत्कदा । अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्गृहं सुराः
नोपसर्गा न वेताला न ग्रहा ब्रह्मराक्षसाः । न रोगा वातिकाः पैत्ताः श्लेष्मसम्भविनस्तथा
नाकालमरणं तस्य कदापि च भविष्यति । सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः
सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः । किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम्
एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः । देवा भवत्सु यद्दुःखं कथ्यतां तदसंशयम्
नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च । एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः । प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम्
अगस्त्याश्वासनवर्णनम् सूत उवाच श्रीशस्य वचनाद्देवाः सन्तुष्टाः सर्व एव हि । प्रसन्नमनसो भूत्वा पुनरेनं समूचिरे
देवा ऊचुः देवदेव महाविष्णो सृष्टिस्थित्यन्तकारण । विष्णो विन्ध्यनगोऽर्कस्य मार्गरोधं करोति हि
तेन भानुविरोधेन सर्व एव महाविभो । अलब्धभोगभागा हि किं कुर्मः कुत्र याम हि
श्रीभगवानुवाच या कर्त्री सर्वजगतामाद्या च कुलवर्धनी । देवी भगवती तस्याः पूजकः परमद्युतिः
अगस्त्यो मुनिवर्योऽसौ वाराणस्यां समासते । तत्तेजोवञ्चकोऽगस्त्यो भविष्यति सुरोत्तमाः
तं प्रसाद्य द्विजवरमगस्त्यं परमौजसम् । याचध्वं विबुधाः काशीं गत्वा निःश्रेयसः पदीम्
सूत उवाच एवं समुपदिष्टास्ते विष्णुना विबुधोत्तमाः । प्रतीताः प्रणताः सर्वे जग्मुर्वाराणसीं पुरीम्
क्षणेन विबुधश्रेष्ठा गत्वा काशीपुरीं शुभाम् । मणिकर्णीं समाप्लुत्य सचैलं भक्तिसंयुताः
सन्तर्प्य देवांश्च पितॄन्दत्त्वा दानं विधानतः । आगत्य मुनिवर्यस्य चाश्रमं परमं महत्
प्रशान्तश्वापदाकीर्णं नानापादपसङ्कुलम् । मयूरैः सारसैर्हंसैश्चक्रवाकैरुपाश्रितम्
महावराहैः कोलैश्च व्याघ्रैः शार्दूलकैरपि । मृगै रुरुभिरत्यर्थं खड्गैः शरभकैरपि
समाश्रितं परमया लक्ष्म्या मुनिवरं तदा । दण्डवत्पतिताः सर्वे प्रणेमुश्च पुनः पुनः
देवा ऊचुः जय द्विजगणाधीश मान्य पूज्य धरासुर । वातापीबलनाशाय नमस्ते कुम्भयोनये
लोपामुद्रापते श्रीमन्मित्रावरुणसम्भव । सर्वविद्यानिधेऽगस्त्य शास्त्रयोने नमोऽस्तु ते
यस्योदये प्रसन्नानि भवन्त्युज्ज्वलभांज्यपि । तोयानि तोयराशीनां तस्मै तुभ्यं नमोऽस्तु ते
काशपुष्पविकासाय लङ्कावासप्रियाय च । जटामण्डलयुक्ताय सशिष्याय नमोऽस्तु ते