विहाय लक्ष्या सह संविहारं को याति मत्स्यादिषु हीनयोनिषु । शय्यां च मुक्त्वा गरुडासनस्थः करोमि युद्धं विपुलं स्वतन्त्रः
पुरा पुरस्तेऽज शिरो मदीयं गतं धनुर्ज्यास्खलनात्क्व चापि । त्वया तदा वाजिशिरो गृहीत्वा संयोजितं शिल्पिवरेण भूयः
हयाननोऽहं परिकीर्तितश्च प्रत्यक्षमेतत्तव लोककर्तः । विडम्बनेयं किल लोकमध्ये कथं भवेदात्मपरो यदि स्याम्
तस्मान्नाहं स्वतन्त्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा । तामेव शक्तिं सततं ध्यायामि च निरन्तरम्
नातः परतरं किञ्चिज्जानामि कमलोद्भव । नारद उवाच इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ
तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुङ्गव । तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे
असंशयं हृदम्भोजे भज देवीपदाम्बुजम् । सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव
सूत उवाच नारदेनैवमुक्तस्तु व्यासः सत्यवतीसुतः । देवीपादाब्जनिष्णातस्तपसे प्रययौ गिरौ
हयग्रीवावतारकथनम् ऋषय ऊचुः सूतास्माकं मनः कामं मग्नं संशयसागरे । यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम्
यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् । हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः
वेदोऽपि स्तौति यं देवं देवाः सर्वे यदाश्रयाः । आदिदेवो जगन्नाथः सर्वकारणकारणः
तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा । तत्सर्वं कथयाशु त्वं विस्तरेण महामते
सूत उवाच शृण्वन्तु मुनयः सर्वे सावधानाः समन्ततः । चरितं देवदेवस्य विष्णोः परमतेजसः
कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः । दशवर्षसहस्राणि परिश्रान्तो जनार्दनः
समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः । अवलम्ब्य धनुः सज्यं कण्ठदेशे धरास्थितम्
दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमापतिः । श्रान्तत्वाद्दैवयोगाच्च जातस्तत्रातिनिद्रितः
तदा कालेन कियता देवाः सर्वे सवासवाः । ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः
गताः सर्वेऽथ वैकुण्ठं द्रष्टुं देवं जनार्दनम् । देवकार्यार्थसिद्ध्यर्थं मखानामधिपं प्रभुम्
अदृष्ट्वा तं तदा तत्र ज्ञानदृष्ट्या विलोक्य ते । यत्रास्ते भगवान् विष्णुर्जग्मुस्तत्र तदा सुराः
ददृशुस्ते तदेशानं योगनिद्रावशं गतम् । विचेतनं विभुं विष्णुं तत्रासांचक्रिरे सुराः
स्थितेषु सर्वदेवेषु निद्रासुप्ते जगत्पतौ । चिन्तामापुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः
तानुवाच ततः शक्रः किं कर्तव्यं सुरोत्तमाः । निद्राभङ्गः कथं कार्यश्चिन्तयन्तु सुरोत्तमाः
तमुवाच तदा शम्भुर्निद्राभङ्गेऽस्ति दूषणम् । कार्यं चैव प्रकर्तव्यं यज्ञस्य सुरसत्तमाः
उत्पादिता तदा वम्री ब्रह्मणा परमेष्ठिना । तया भक्षयितुं तत्र धनुषोऽग्रं धरास्थितम्
भक्षितेऽग्रे तदा निम्नं गमिष्यति शरासनम् । तदा निद्राविमुक्तोऽसौ देवदेवो भविष्यति
देवकार्यं तदा सर्वं भविष्यति न संशयः । स वम्रीं संदिदेशाथ देवदेवः सनातनः
तमुवाच तदा वम्री देवदेवस्य मापतेः । निद्राभङ्गः कथं कार्यो देवस्य जगतां गुरोः
निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् । शिशुमातृविभेदश्च ब्रह्महत्यासमं स्मृतम्
तत्कथं देवदेवस्य करोमि सुखनाशनम् । किं फलं भक्षणाद्देव येन पापं करोम्यहम्
सर्वः स्वार्थवशो लोकः कुरुते पातकं किल । तस्मादहं करिष्यामि स्वार्थमेव प्रभक्षणम्