तेन नादेन सा जाता काली विस्तारितानना । श्रुत्वा तन्निनदं घोरं सिंहो देव्याश्च वाहनम्
जगर्ज सोऽपि बलवाञ्जनयन्भयमद्भुतम् । तन्निनादमुपश्रुत्य दानवाः क्रोधमूर्च्छिताः
सर्वे चिक्षिपुरस्त्राणि देवीं प्रति महाबलाः । तस्मिन्नेवायते युद्धे दारुणे लोमहर्षणे
ब्रह्मादीनाञ्च देवानां शक्तयश्चण्डिकां ययुः । यस्य देवस्य यद्रूपं यथा भूषणवाहनम्
तादृग्रूपास्तदा देव्यः प्रययुः समराङ्गणे । ब्रह्माणी वरटारूढा साक्षसूत्रकमण्डलुः
आगता ब्रह्मणः शक्तिर्ब्रह्माणीति प्रतिश्रुता । वैष्णवी गरुडारूढा शङ्खचक्रगदाधरा
पद्महस्ता समायाता पीताम्बरविभूषिता । शाङ्करी तु वृषारूढा त्रिशूलवरधारिणी
अर्धचन्द्रधरा देवी तथाहिवलया शिवा । कौमारी शिखिसंरूढा शक्तिहस्ता वरानना
युद्धकामा समायाता कार्तिकेयस्वरूपिणी । इन्द्राणी सुष्ठुवदना सुश्वेतगजवाहना
वज्रहस्तातिरोषाढ्या संग्रामाभिमुखी ययौ । वाराही शूकराकारा प्रौढप्रेतासना मता
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । याम्या च महिषारूढा दण्डहस्ता भयप्रदा
समायाताथ संग्रामे यमरूपा शुचिस्मिता । तथैव वारुणी शक्तिः कौबेरी च मदोत्कटा
एवंविधास्तथाऽऽकारा ययुः स्वस्वबलैर्वृताः । आगतास्ताः समालोक्य देवी मुदमवाप च
स्वस्था मुमुदिरे देवा दैत्याश्च भयमाययुः । ताभिः परिवृतस्तत्र शङ्करो लोकशङ्करः
समागम्य च संग्रामे चण्डिकामित्युवाच ह । हन्यन्तामसुराः शीघ्रं देवानां कार्यसिद्धये
निशुम्भं चैव शुम्भं च ये चान्ये दानवाः स्थिताः । हत्वा दैत्यबलं सर्वं कृत्वा च निर्भयं जगत्
स्वानि स्वानि च धिष्ण्यानि समागच्छन्तु शक्तयः । देवा यज्ञभुजः सन्तु ब्राह्मणा यजने रताः
प्राणिनः सन्तु सन्तुष्टाः सर्वे स्थावरजङ्गमाः । शमं यान्तु तथोत्पाता ईतयश्च तथा पुनः
घनाः काले प्रवर्षन्तु कृषिर्बहुफला तथा । व्यास उवाच एवं ब्रुवति देवेशे शङ्करे लोकशङ्करे
चण्डिकाया शरीरात्तु निर्गता शक्तिरद्भुता । भीषणातिप्रचण्डा च शिवाशतनिनादिनी
घोररूपाथ पञ्चास्यमित्युवाच स्मितानना । देवदेव व्रजाशु त्वं दैत्यानामधिपं प्रति
दूतत्वं कुरु कामारे ब्रूहि शुम्भं स्मराकुलम् । निशुम्भञ्च मदोत्सिक्तं वचनान्मम शङ्कर
मुक्त्वा त्रिविष्टपं यात यूयं पातालमाशु वै । देवाः स्वर्गे सुखं यान्तु तुराषाट् स्वासनं शभम्
प्राप्नोतु त्रिदिवं स्थानं यज्ञभागांश्च देवताः । जीवितेच्छा च युष्माकं यदि स्यात्तु महत्तरा
तर्हि गच्छत पातालं तरसा यत्र दानवाः । अथवा बलमास्थाय युद्धेच्छा मरणाय चेत्
तदाऽऽगच्छन्तु तृप्यन्तु मच्छिवाः पिशितेन वः । व्यास उवाच तच्छ्रुत्वा वचनं तस्याः शूलपाणिस्त्वरान्वितः
गत्वाऽऽह दैत्यराजानं शुम्भं सदसि संस्थितम् । शिव उवाच राजन् दूतोऽहमम्बायास्त्रिपुरान्तकरो हरः
त्वत्सकाशमिहायातो हितं कर्तुं तवाखिलम् । त्यक्त्वा स्वर्गं तथा भूमिं यूयं गच्छत सत्वरम्
पातालं यत्र प्रह्लादो बलिश्च बलिनां वरः । अथवा मरणेच्छा चेत्तर्ह्यागच्छत सत्वरम्
संग्रामे वो हनिष्यामि सर्वानेवाहमाशु वै । इत्युवाच महाराज्ञी युष्मत्कल्याणहेतवे