व्यास उवाच एवं देवा भयोद्विग्नाश्चिन्तामापुर्महत्तराम् । यदा तदाम्बिका प्राह कालीं कमललोचनाम्
चामुण्डे कुरु विस्तीर्णं वदनं त्वरिता भृशम् । मच्छस्त्रपातसम्भूतं रुधिरं पिब सत्वरा
भक्षयन्ती चर रणे दानवानद्य कामतः । हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा
तथा कुरु विशालाक्षि पानं तद्रुधिरस्य च । बिन्दुमात्रं यथा भूम्यां न पतेदपि साम्प्रतम्
भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यन्ति चापरे । एवमेषां क्षयो नूनं भविष्यति न चान्यथा
घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा । पिबन्ती क्षतजं सर्वं यतमानारिसंक्षये
इत्थं दैत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम् । इन्द्राय सुस्थिरं सर्वं गमिष्यामो यथासुखम्
व्यास उवाच इत्युक्ताम्बिकया देवी चामुण्डा चण्डविक्रमा । पपौ च क्षतजं सर्वं रक्तबीजशरीरजम्
अम्बिका तं जघानाशु खड्गेन मुसलेन च । चखाद देहशकलांश्चामुण्डा तान्कृशोदरी
सोऽपि क्रुद्धो गदाघातैश्चामुण्डां समघातयत् । तथापि सा पपावाशु क्षतजं तमभक्षयत्
येऽन्ये रुधिरजाः क्रूरा रक्तबीजा महाबलाः । तेऽपि निष्पातिताः सर्वे भक्षिता गतशोणिताः
कृत्रिमा भक्षिताः सर्वे यस्तु स्वाभाविकोऽसुरः । सोऽपि प्रपातितो हत्वा खड्गेनातिविखण्डितः
रक्तबीजे हते रौद्रे ये चान्ये दानवा रणे । पलायनं ततः कृत्वा गतास्ते भयकम्पिताः
हाहेति विब्रुवन्तस्ते शुम्भं प्रोचुः सविह्वलाः । रुथिरारक्तदेहाश्च विगतास्त्रा विचेतसः
राजन्नम्बिकया रक्तबीजोऽसौ विनिपातितः । चामुण्डा तस्य देहात्तु पपौ सर्वं च शोणितम्
ये चान्ये दानवाः शूरा वाहनेनातिरंहसा । सिंहेन निहताः सर्वे काल्या च भक्षिताः परे
वयं त्वां कथितुं राजन्नागता युद्धचेष्टितम् । चरितञ्च तथा देव्याः संग्रामे परमाद्भुतम्
अजेयेयं महाराज सर्वथा दैत्यदानवैः । गन्धर्वासुरयक्षैश्च पन्नगोरगराक्षसैः
अन्यास्तत्रागता देव्य इन्द्राणीप्रमुखा भृशम् । युध्यमाना महाराज वाहनैरायुधैर्युताः
ताभिः सर्वं हतं सैन्यं दानवानां वरायुधैः । रक्तबीजोऽपि राजेन्द्र तरसा विनिपातितः
एकापि दुःसहा देवी किं पुनस्ताभिरन्विता । सिंहोऽपि हन्ति संग्रामे राक्षसानमितप्रभः
अतो विचार्य सचिवैर्यद्युक्तं तद्विधीयताम् । न वैरमनया युक्तं सन्धिरेव सुखप्रदः
आश्चर्यमेतदखिलं यन्नारी हन्ति राक्षसान् । रक्तबीजोऽपि निहतः पीतं तस्यापि शोणितम्
अन्ये निपातिता दैत्याः संग्रामेऽम्बिकया नृप । चामुण्डया च मांसं वै भक्षितं सकलं रणे
वरं पातालगमनं तस्याः सेवाथवा वरा । न तु युद्धं महाराज कार्यमम्बिकया सह
न नारी प्राकृता ह्येषा देवकार्यार्थसाधिनी । मायेयं प्रबला देवी क्षपयन्तीयमुत्थिता
व्यास उवाच इति तेषां वचस्तथ्यं श्रुत्वा कालविमोहितः । मुमूर्षुः प्रत्युवाचेदं शुम्भः प्रस्फुरिताधरः
शुम्भ उवाच यूयं गच्छत पातालं शरणं वा भयातुराः । हनिष्याम्यहमद्यैव ताञ्च ताश्च समुद्यतः
जित्वा सर्वान्सुरानाजौ कृत्वा राज्यं सुपुष्कलम् । कथं नारीभयोद्विग्नः पातालं प्रविशाम्यहम्
निहत्य पार्षदान्सर्वान् रक्तबीजमुखान् रणे । प्राणत्राणाय गच्छामि हित्वा किं विपुलं यशः