अधश्च तिसृभिः क्षाल्यं पादौ षट्भिस्तथैव च 50.
गोमयस्य प्रमाणं तु तेनाङ्गं लेपयेत्ततः 50.
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः 50.
स्नानकाले स्मरेद्विष्णमापो नारायणो यतः 50.
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् 50.
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् 50.
सावित्रीं वा जपे द्विद्वांस्तथा चैवाघमर्षणम् 50.
इदमापः प्रवहतव्याहृतिभिस्तथैव च 50.
अन्तर्जलमवाङ्मग्नो जपेत्त्रिरघमर्षणम् 50.
आवर्त्तयेद्वा प्रणवं देवदेवं रमरेद्धरिम् 50.
विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः 50.
अथोपतिष्ठेदादित्यमूर्द्ध्वपुष्पान्विताञ्जलिम् 50.
उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः 50.
अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत् 50.
तिष्ठंश्च वीक्ष्यमाणोऽर्कं जपं कुर्य्यात्समाहितः 50.
कर्त्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता 50.
अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः 50.
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् 50.
आदावोङ्कारमुच्चार्य्य नमोऽन्ते तर्पयामि च 50.
पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः ।। 50.
देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् 50.
प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत 50.
स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः 50.
अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हरः ! 50.
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः 50.
नमस्कारेण पुष्पाणि विन्यसेद्वै पृथक् पृथक् 50.
तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम् 50.
निवेदयेच्च आत्मानं विष्णवेऽमलतेजसे 50.
अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम् मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत् ।। 50.
यदि स्यात्तर्पणादर्वाग्ब्रह्मयज्ञं कुतो भवेत् 50.