विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः 50.
अथोपतिष्ठेदादित्यमूर्द्ध्वपुष्पान्विताञ्जलिम् 50.
उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः 50.
अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत् 50.
तिष्ठंश्च वीक्ष्यमाणोऽर्कं जपं कुर्य्यात्समाहितः 50.
कर्त्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता 50.
अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः 50.
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् 50.
आदावोङ्कारमुच्चार्य्य नमोऽन्ते तर्पयामि च 50.
पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः ।। 50.
देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् 50.
प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत 50.
स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः 50.
अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हरः ! 50.
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः 50.
नमस्कारेण पुष्पाणि विन्यसेद्वै पृथक् पृथक् 50.
तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम् 50.
निवेदयेच्च आत्मानं विष्णवेऽमलतेजसे 50.
अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम् मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत् ।। 50.
यदि स्यात्तर्पणादर्वाग्ब्रह्मयज्ञं कुतो भवेत् 50.
वैश्वदेवस्तु कर्त्तव्यो देवयज्ञः स तु स्मृतः 50.
श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च 50.
एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमाः 50.
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः 50.
पूजयेदतिथिं नित्यं नमस्येदर्चयोद्द्विजम् 50.
भिक्षामाहुर्ग्रासमात्रमन्नं तत्स्याच्चतुर्गुणम् 50.
गोदोहमात्रकालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् 50.
भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्यचारिणे 50.
भुञ्जति बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् 50.
भुञ्जते चेत्स मूढात्मा तिर्य्यग्योनिं च गच्छति 50.