तस्मिन्मरकतस्थाने यत्किञ्चिदुपजायते 71.
सर्वमन्त्रौषधिगणैर्यन्न शक्यं चिकित्सितुम् 71.
अन्यदप्याकरे तत्र यद्दोषैरुपवर्जितम् 71.
अत्यन्तहरितवर्णं कोमलमर्चिर्विभेदजटिलं च 71.
युक्तं संस्थानगुणैः समरागं गौरवेण न विहीनम् 71.
हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेद्दीप्तिः 71.
यच्च मनसः प्रसादं विदधाति निरीक्ष्यमतिमात्रम् 71.
वर्णस्याति विभुत्वाद्यस्यान्तः स्वच्छकिरणपरिधानम् 71.
वर्णोज्ज्वलया कान्त्या सान्द्राकारो विभासया भाति 71.
शबलकठोरमलिनं रूक्षं पाषाणकर्करोपेतम् 71.
यत्सन्धिशोषितं रत्नमन्यन्मरकताद्भवेत् 71.
भल्लातकी पुत्रिका च तद्वर्णसमयोगतः 71.
क्षौमेण वाससा मृष्टा दीप्तिं त्यजति पुत्रिका 71.
कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुणवर्णैः 71.
वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्द्विजातयः 71.
ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते 71.
स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ 71.
दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च 71.
दौषैर्होनं गुणैर्युक्तं काञ्चनप्रतियोजितम् 71.
तुलया पद्मरागस्य यन्मूल्यमुपजायते 71.
तथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते 71.
इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मरकतपरीक्षणं नामैकसप्ततितमोऽध्यायः
तत्रैव सिंहलवधूकरपल्लवाग्रव्यालूनबाललवलीकुसुमप्रवाले 72.
तत्प्रत्ययादुभयशोभनवीचिभासा विस्तारिणी जलनिधेरुपकच्छभूमिः 72.
तत्रासिताब्जहलभृद्वसनासिभृंगशार्ङ्गायुधांगहरकण्ठकषायपुष्पैः 72.
अन्ये प्रसन्नपयसः पयसां निधातुरम्बुत्विषः शिखिगणप्रतिमास्तथान्ये 72.
एकप्रकारा विस्पष्टवर्णशोभावभासिनः 72.
मृत्पाषाणशिलारन्ध्रकर्करात्राससंयुताः 72.
तत एव हि जायन्ते मणयस्तत्र सूरयः 72.
धार्य्यमाणस्य ये दृष्टा पद्मरागमणेर्गुणाः 72.