असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत् 105.
अन्तर्जले विशुद्धे च दत्त्वा गां च पयस्विनीम् 105.
जले जप्त्वा तु जुहुयाच्चात्वारिंशद्घृताहुतीः 105.
सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः 105.
प्राणायामशतं कुर्य्यात्सर्वपापापनुक्त्ये 105.
कृत्वोपवासं रेतोविण्मूत्राणां प्राशनेद्विजः 105.
रुद्रैकादशजप्याद्धि पापनाशो भवेद्द्विजैः 105.
न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः 105.
ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता 105.
स्नानमौनोपवासोज्यास्वाध्यायोपस्थनिग्रहः 105.
पञ्चगव्यं तु गोक्षीरं दधिमूत्रशकृद्घृतम् 105.
पृथक् सान्तपनैर्द्रव्यैः षडहः सोपवासकः 105.
पर्णोदुम्बरराजीवबील्वपत्रकुशोदकैः 105.
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् 105.
एकभक्तेन नक्तेन तथैवायाचितेन च 105.
यथा कथञ्चित्त्रिगुणः प्रजापत्योऽयमुच्यते 105.
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् 105.
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् 105.
एषां त्रिरात्रमभ्यासादेकैकं स्याद्यथाक्रमात् 105.
तिथिपिण्डांश्चरेद्वृद्ध्या शुक्ले शिख्यण्डसम्मितान् 105.
यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम् 105.
कृत्वा त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत् 105.
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु 105.
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमश्नुते ॥ 105.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तप्रायश्चित्तविवेको नाम पञ्चोत्तरशततमोऽध्यायः
याज्ञवल्क्य उवाच । प्रेता (त) शौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः । ऊनद्विवर्षं निखनेन्न कुर्यादु दकं ततः ॥ १,१०६.
आ श्मशानादनुव्रज्य इतरैर्ज्ञातिभिर्युतः । यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना ॥ १,१०६.
स दग्धव्य उपेतश्चैदाहिताग्न्यावृतार्थवत् । सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयान्त्यपः ॥ १,१०६.
अपनः शोशुचदघमनेन पितृदिङ्मुखाः । एवं मातामहाचार्यपत्नीनां चोदकक्रियाः ॥ १,१०६.
कामोदकाः पुत्रसखिस्वस्त्रीयश्वशुरर्त्विजः । नामगोत्रेण ह्युदकं सकृत्सिञ्चन्ति वाग्यताः ॥ १,१०६.