अमावास्यां पूजनीया वारा वै भास्करादयः । नक्षत्राणि च योगाश्च पूजिताः सर्वदायकाः ॥ १,११६.
श्रीगरुडमहापुराणम् ११७ ब्रह्मोवाच । मार्गशीर्षे सिते पक्षे व्यासांनङ्गत्रयोदशी । मल्लिकाजं दन्तकाष्ठं धुतूरैः पूजयेच्छिवम् ॥ १,११७.
अनङ्गायेति नैवेद्यं मधप्राश्याथ पौषके । योगेश्वरं पूजयेच्च बिल्वपत्रैः कदम्बजम् । दन्तकाष्ठं चन्दनादि नैवेद्यं कृसरादिकम् ॥ १,११७.
माघे नटेश्वरायार्च्य कुन्दैर्मौक्तिकमालया । प्लक्षेण दन्तकाष्ठं च नैवेद्यं पूरिका मुने ॥ १,११७.
वीरेश्वरं फाल्गुने तु पूजयेत्तु मरूबकैः । शर्कराशाकमण्डाश्च चूतजं दन्तधावनम् ॥ १,११७.
चैत्रे यजेत्सु रूपाय कर्पूरं प्राशयेन्निशि । दन्तधावनाटजं नैवेद्यं शष्कुलीं ददेत् ॥ १,११७.
पूजा दमनकः शम्भोर्वेशाखेऽशोक्रपुष्पकैः । महारूपाय नैवेद्यं गुडभक्तं पुट्टबरम् ॥ १,११७.
दन्तकाष्ठं प्राशयेच्च ददेज्जतीफलं तथा । प्रद्युम्नं पूजयेज्ज्येष्ठे चम्पकैर्बिल्वजं दशेत् ॥ १,११७.
लवगारा तथा षढि उमामदति शासनः? । अगुरुं दन्तकाष्ठं च तमपामार्गकैर्यजेत् ॥ १,११७.
श्रावणे करवीरं च शम्भवे शूलपाणये । गन्धाशनो घृताद्यैश्च करवीरजशोधनम् ॥ १,११७.
सद्योजातं भाद्रपदे बकुलैः पूपकैर्यजेत् । गन्धर्वाशो मदनकमाश्विने च सुराधिपम् ॥ १,११७.
चम्पकैः स्वर्णवा (धार्) यादो जिन्मोदकसंप्रदः । खादिरं दन्तकाष्ठं च कार्तिके रुद्रमर्चयेत् ॥ १,११७.
बदर्या दन्तकाष्ठं च मदनो दशमाशनः । क्षीरशाकप्रदः पद्मैरब्दन्ते शिवमर्चयेत् ॥ १,११७.
रतिमुक्तमनङ्गं च स्वर्णमण्डलसंस्थितम् । गन्धाद्यैर्दशसाहस्रं तिलव्रीह्यादि होमयेत् ॥ १,११७.
जागरं गीतवदित्रं प्रभितऽभ्यार्च्य वेदयेत् । द्विजाय शय्यां पात्रं च छत्रं वस्त्रमुपानहौ ॥ १,११७.
गां द्विजं भोजयेद्भक्त्या कृतकृत्यो भवेन्नरः । एतदुद्यापनं सर्वं व्रतेषु ध्येपमीदृशम् । फलञ्च श्रीसुतारोग्यसौभाग्यस्वर्गतं भवेत् ॥ १,११७.
श्रीगरुडमहापुराणम् ११८ ब्रह्मोवाच । व्रतं कैवल्यशमनमखण्डद्वादशीं वदे । मागशीर्षे सिते पक्षे गव्याशी समुपोषितः ॥ १,११८.
द्वादश्यां पूजये द्विष्णुं दद्यान्मासचतुष्टयम् । पञ्चव्रीहियुतं पात्रं विप्रायेदमुदाहरेत् ॥ १,११८.
सप्तजन्मनि हे विष्णो यन्मया हि व्रतं कृतम् । भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥ १,११८.
यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम । तथाखिलान्यखण्डानि व्रितानि मम सन्ति वै ॥ १,११८.
सक्तुपात्राणि चैत्रादौ श्रावणादौ घृतान्वितान् । व्रतकृद्वतपूर्णस्तु स्त्रीपुत्रस्वर्गभाग्भवेत् ॥ १,११८.
श्रीगरुडमहापुराणम् ११९ ब्रह्मोवाच । अगस्त्यार्घ्यव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकम् । अप्राप्ते भास्करे कन्यां सति भागे त्रिभिर्दिनैः ॥ १,११९.
अर्घ्यं दद्यादगस्त्याय मूर्तिं संपूज्य वै मुने ! । काशपुष्पमयीं कुम्भे प्रदोषे कृतजागरः ॥ १,११९.
दध्यक्षताद्यैः संपूज्य उपोष्य फलपुष्पकैः । पञ्चवर्णसमायुक्तं हेमरौप्यसमन्वितम् ॥ १,११९.
सप्तधान्ययुतं पात्रं दधिचन्दनचर्चितम् । अगस्त्यः खनमानेति मन्त्रेणार्घ्यं प्रदापयेत् ॥ १,११९.
खासपुष्पप्रतीकाश अग्निमारुतसम्भव ! । मित्रावारुणयोः पुत्त्रो कुम्भयोने नमोऽस्तु ते ॥ १,११९.
शूद्रस्त्र्यादिरनेनैव त्यजेद्धान्यं फलं रसम् । दद्याद्द्विजातये कुम्भं सहिरण्यं सदक्षिणम् । भोजयेच्च द्विजान्सप्त वर्षं कृत्वा तु सर्वभाक् ॥ १,११९.
श्रीगरुडमहापुराणम् १२० ब्रह्मोवाच । रम्भातृतीयां वक्ष्ये च सौभाग्यश्रीसुतादिदाम् । मार्गशीर्षेसिते पक्षे तृतीयायामुपोषितः ॥ १,१२०.
गौरीं यजेद्बिल्वपत्रैः कुशोदककरस्ततः । कदम्बादौ गिरिसुतां पौषे मरुबकैर्यजेत् ॥ १,१२०.
कर्पूरादः कृसरदो मल्लिकादन्तकाष्ठकृत् । माघेसुभद्रां कल्हारैर्घृताशो मण्डकप्रदः ॥ १,१२०.