अमृतस्तत्कृतो मोहो निवर्त्तेत च मर्दनात् 19.
ज्ञातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम् षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम् 19.
विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा 19.
गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः 19.
गृहे विलिखिता यत्र तन्नागाः संत्यजन्ति च 19.
यद्गृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत् 19.
ॐ सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा 19.
नामैतद्वारिधाराभिः स्न्नातो दष्टो विषं त्यजेत् 19.
अंगुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके 19.
नाक्रामन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः 19.
ॐ ह्री ह्रौ ह्रीं भि(भी) रुण्डायै स्वाहा 19.
अ आ न्यसेत्तु पादाग्रे इ ई गुलफेऽथ जानुनि 19.
वक्क्रे अमुत्तमांगे अः न्यसेद्वै हंससंयुताः 19.
गरुडोऽहमिति ध्यात्वा कुर्य्याद्विषहरां (रीं) क्रियाम् 19.
न्यस्य हंसं वामकरे नासामुखनिरोधकृत् 19.
स वायुना समाकृष्य दष्टानां गरलं हरेत् 19.
पीतं प्रत्यंगिरामूलं तण्डुलद्भिर्विषापहम् 19.
मूलं शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम् 19.
विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम् 19.
सर्वांगलेपतशचापि पानाद्वा विषहृद्भवेत् 19.
हृल्ललाटविसर्गान्तं ध्यातं वश्या दिकृद्भवेत् 19.
जप्त्वा सप्ताष्टसाहस्त्रं गरुत्मानिव सर्वगः विषहृत्स्यात्कथा तद्वन्मणिर्व्यासः स्मृतो ध्रुवम् ।। 19.
वक्ष्ये तत्परमं गुह्यं शिवोक्तं मन्त्रवृन्दकम् 20.
एतैरेवायुधैर्युद्धे मन्त्रैः शत्रूञ्जयेन्नृपः 20.
अष्टवर्गं चाष्टमं च ख्यातमीशानपत्रके 20.
ह्रींका रश्च शिवः शूले त्रिशाखे तु क्रमान्न्यसेत् 20.
शूलं गृहीत्वा हस्तेना भ्राम्य चाकाशसम्मुखम् 20.
धूमारक्ते करं मध्ये ध्यात्वा खे चिन्तयेन्नरः 20.
त्रिलोकान्रक्षयेन्मन्त्रो मर्त्यलोकस्य का कथा 20.
खादिरान्कीलकानष्टौ क्षेत्रे संमन्त्र्य विन्यसेत् 20.