स्तुत्वा ध्यायेत्स्वहृदये ब्रह्मरूपिणमव्ययम् 31.
मूलमन्त्रं जपेद्वापि यः स याति नरो हरिम् 31.
रहस्यं परमं गुह्यं भुक्तिमुक्तिप्रदं परम् श्रृणुयाच्छ्रावयेद्वापि विष्णुलोकं स गच्छति ।। 31.
पञ्चतत्त्वार्चनं ब्रूहि शंखचक्रगदाधर ! 32.
पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत 32.
तच्छृणुष्व महादेव पवित्रं कलिनाशनम् 32.
वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः 32.
लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः 32.
तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः 32.
एतेषां वाचकान्मंत्रानेताञ्छृणु वृषध्वज ! ॐ आं संकर्षणाय नमः ॐ अनिरुद्धाय नमः 32.
पञ्च मंत्राः समाख्याता देवानां वाचकास्तव 32.
अधुना संप्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम् 32.
आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत् 32.
आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम् 32.
सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः 32.
वासुदेवं जगन्नाथं पीतकौशेयवाससम् 32.
आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम् 32.
प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः 32.
चिन्तयेच्च ततो न्यासं कुर्य्या द्वै कारयोर्द्वयोः 32.
अङ्गमन्त्रैर्महादेव ! तान्मंत्राञ्श्रृणु सुव्रत ! ॐ ईं शिरसे नमः ॐ ऐं कवचाय नमः ॐ अः अस्त्राय फट् ।। 32.
ॐ समस्तपरिवारायाच्युताय नमः ॐ विधात्रे नमः ॐ कूर्माय नमः ॐ पृथिव्यैनमः ॐ धर्माय नमः ॐ वैराग्याय नमः ॐ अज्ञानाय नमः ॐ अं अर्कमण्डलाय नमः ॐ वं वह्निमण्डलाय नमः ॐ पाञ्चजन्याय नमः ॐ गदायै नमः ॐ श्रियै नमः ॐ पुष्ट्यै नमः ॐ शक्त्यै नमः ॐ इन्द्राय नमः ॐ यमाय नमः ॐ वरुणाय नमः ॐ सोमाय नमः ॐ अनन्ताय नमः ॐ विष्वक्सेनाय नमः ।। 32.
एते मन्त्राः समाख्यातास्तव रुद्र समासतः 32.
ॐ पद्माय नमः आत्मानं वासुदेवं च ध्यात्वा चैव परेश्वरम् ।। 32.
आसनं पूजयेत्पश्चादावाह्य विधिवन्नरः 32.
गरुडं पूजयेदग्रे वासुदेवस्य शङ्कर 32.
धर्मं ज्ञानं च वैराग्यमैश्वर्यं पूर्वदेशतः 32.
मण्डलत्रयमध्ये तु कीर्त्तिता ह्यसनस्थितिः 32.
कर्णिकायां वासुदेवं पूजयेत्परमेश्वरम् 32.
शक्तयश्चैव पूर्वादौ देवदेवस्य शङ्कर 32.
अधो नाग तदूर्द्ध्वन्तु ब्रह्माणं पूजयेत्सुधीः 32.