गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च 34.
स्तुवीत चान्या स्तुत्या प्रणवाद्यैर्वृषध्वज 34.
नमो विद्यास्वरूपाय विद्यादात्रे नमोनमः 34.
सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने 34.
नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च 34.
त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे 34.
इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् 34.
सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम् 34.
इति ते कथिता पूजा हयग्रीवस्य शङ्कर 34.
न्यासादिकं प्रवक्ष्यामि गायत्र्याः शृणु शङ्कर 35.
ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता 35.
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता 35.
त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा 35.
न्यासे जपे तथा ध्याने अग्निकार्य्ये तथार्चने 35.
पादाङ्गुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः 35.
स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः 35.
पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् 35.
श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् 35.
शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् 35.
यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा 35.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
सन्ध्याविधिं प्रवक्ष्यामि श्रृणु रुद्राघनाशनम् 36.
सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह 36.
मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः 36.
सायमग्निश्च मेत्युक्ता प्रातः सूर्य्येत्यपः पिबेत् 36.
आपोहिष्ठेत्यृचा कुर्य्यान्मार्जनं तु कुशोदकैः 36.
रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान् 36.
समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् 36.
उदुत्यंचित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम् 36.
पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च 36.