आरुह्य गरुडं देवो महामेरुरिवापरः
समाचचक्षिरे नादं तदा दैत्यपतेर्भयात्
विमुञ्चन् भैरवं नादं तं जानीमो ऽमरार्दन
संनद्धैः सायुधैः पुत्रैः प्रह्रादाद्यैस्तदा ययौ
पुरुषं पर्वताकारं नारायणमिवापरम्
अयं स देवो देवानां गोप्ता नारायणो रिपुः
तानि चाशेषतो देवो नाशयामास लीलया
प्रह्रादश्चाप्यनुह्रादः संह्रादो ह्राद एव च
संह्रादश्चापि कौमारमाग्नेयं ह्राद एव च
न शेकुर्बाधितुं विष्णुं वासुदेवं यथा तथा
प्रगृह्य पादेषु करैः संचिक्षेप ननाद च
पादेन ताडयामास वेगेनोरसि तं बली
गत्वा विज्ञापयामास प्रवृत्तमखिलं तथा
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा
आविर्बभूव सहसा मोहयन् दैत्यपुङ्गवान्
भाति नारायणो ऽनन्तो यथा मध्यन्दिने रविः
वधाय प्रेरयामास नरसिहस्य सो ऽसुरः
सहैव त्वनुजैः सर्वैर्नाशयाशु मयेरितः
युयुधे सर्वयत्नेन नरसिंहेन निर्जितः
ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च
न हानिमकरोदस्त्रं यथा देवस्य शूलिनः
मेने सर्वात्मकं देवं वासुदेवं सनातनम्
ननाम शिरसा देवं योगिनां हृदयेशयम्
निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाब्रवीत्
पुराणपुरुषो देवो महायोगी जगन्मयः
प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः
गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम्
प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया
समागतो ऽस्मद्भवनमिदानीं कालचोदितः
मा निन्दस्वैनमीशानं भूतानामेकमव्ययम्