ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः
ते ऽपि तेनैव मार्गेण योगोक्तेन तपस्विनः रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
दशमे द्वापरे व्यासः त्रिपाद्वै नाम नामतः यदा भविष्यते विप्रस् तदाहं भविता मुनिः
हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे नाम्ना भृगोस्तु शिखरं प्रथितं देवपूजितम्
तत्रापि मम ते पुत्रा भविष्यन्ति दृढव्रताः बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः
योगात्मानो महात्मानस् तपोयोगसमन्विताः रुद्रलोकं गमिष्यन्ति तपसा दग्धकिल्बिषाः
एकादशे द्वापरे तु व्यासस्तु त्रिव्रतो यदा तदाप्यहं भविष्यामि गङ्गाद्वारे कलौ तथा
उग्रो नाम महातेजाः सर्वलोकेषु विश्रुतः तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः
लम्बोदरश् च लम्बाक्षो लम्बकेशः प्रलम्बकः प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते
द्वादशे परिवर्ते तु शततेजा यदा मुनिः भविष्यति महातेजा व्यासस्तु कविसत्तमः
तदाप्यहं भविष्यामि कलाविह युगान्तिके हैतुकं वनमासाद्य अत्रिर्नाम्ना परिश्रुतः
तत्रापि मम ते पुत्रा भस्मस्नानानुलेपनाः भविष्यन्ति महायोगा रुद्रलोकपरायणाः
सर्वज्ञः समबुद्धिश् च साध्यः सर्वस्तथैव च प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते
त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु धर्मो नारायणो नाम व्यासस्तु भविता यदा
तदाप्यहं भविष्यामि वालिर्नाम महामुनिः वालखिल्याश्रमे पुण्ये पर्वते गन्धमादने
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा
महायोगबलोपेता विमला ऊर्ध्वरेतसः प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते
यदा व्यासस्तरक्षुस्तु पर्याये तु चतुर्दशे तत्रापि पुनरेवाहं भविष्यामि युगान्तिके
वंशे त्वङ्गिरसां श्रेष्ठे गौतमो नाम नामतः भविष्यति महापुण्यं गौतमं नाम तद्वनम्
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा अत्रिर्देवसदश्चैव श्रवणो ऽथ श्रविष्ठकः
योगात्मानो महात्मानः सर्वे योगसमन्विताः प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः
ततः पञ्चदशे प्राप्ते परिवर्ते क्रमागते त्रैय्यारुणिर्यदा व्यासो द्वापरे समपद्यत
तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजः तत्र वेदशिरो नाम अस्त्रं तत्पारमेश्वरम्
भविष्यति महावीर्यं वेदशीर्षश् च पर्वतः हिमवत्पृष्ठमासाद्य सरस्वत्यां नगोत्तमे
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः कुणिश् च कुणिबाहुश् च कुशरीरः कुनेत्रकः
योगात्मानो महात्मानः सर्वे ते ह्यूर्ध्वरेतसः प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः
व्यासो युगे षोडशे तु यदा देवो भविष्यति तत्र योगप्रदानाय भक्तानां च यतात्मनाम्
तदाप्यहं भविष्यामि गोकर्णो नाम नामतः भविष्यति सुपुण्यं च गोकर्णं नाम तद्वनम्
तत्रापि मम ते पुत्रा भविष्यन्ति च योगिनः काश्यपो ह्युशनाश्चैव च्यवनो ऽथ बृहस्पतिः
ते ऽपि तेनैव मार्गेण ध्यानयोगसमन्विताः प्राप्य माहेश्वरं योगं गन्तारो रुद्रमेव हि